________________ उणादिपकरणम् ] सिद्धहैमबृहत्मक्रिया. 733 कनिगदिमनेः मरूपे // 8 // किदिति निवृत्तम् / एभ्योऽकारः प्रत्ययः स्यात् एषां च सरूपे समानरूपे द्वे उक्ती भवतः / कनै दीप्तिकान्तिगतिषु / कनति दीप्यते कन्कनः कान्तः। गद व्यक्तायां वाचि / गदति अव्यक्तं वदति गद्यतेऽव्यक्तं कथ्यते वा गद्गदोऽव्यक्तवाक्, गद्गदमव्यक्तं वचनम् / मनिंच ज्ञाने। मन्मनः अविस्पष्टवाक्। सरूपग्रहणं व्यञ्जनस्यानादेर्लुक् इत्यादिकार्यनिवृत्त्यर्थम् / ऋतष्टित् // 9 // ऋकारान्ताद् धातोरकारः प्रत्ययः स्यात् स च बहुलं टिव धातोश्च सरूपे द्वे रूपे / दृश् विदारणे-दीर्यते भिद्यतेऽनेन श्रोत्रमिति दर्दरः वाद्यविशेषः पर्वतश्च / दर्दरी सस्यलुण्टिः / कृत् विक्षेपे / कर्करः क्षुद्राश्मा / कर्करी गलन्तिका / बृग्श् वरणे / वर्वरः म्लेच्छजातिः / वर्वरी केशविशेषः / भृश् भर्जने / भर्भरः छद्मवान् / भर्भरी श्रीः / जूण् नृपच् जरसि / जर्जरः अदृढः / जर्जरी स्त्री। झझरः वाद्यविशेषः / झझरी झल्लरिका / गृत् निगरणे। गर्गरः राजर्षिः / गर्गरी महाकुम्भः / मृश् हिंसायाम् / मर्मरः शुष्कपत्रप्रकरः / तद्धर्माऽन्योऽपि क्षोदासहिष्णुर्दानवश्च / मर्मरायां दूर्वायामित्यत्र टित्त्वेऽपि डीन भवति बहुलाधिकारात् / तत एव च ऋकारान्तादपि। धृ सेचने / घर्घरः सदोषाव्यक्तवाक् / घर्घरी किंकणिका। किच्च // 10 // ऋकारान्ताद् धातोर्यथादर्शनं किदकारः प्रत्ययः स्यात् धातोश्च सरूपे द्वे रूपे / मृश् हिंसायाम् / मूर्यतेऽनेन मुर्मुरः ज्वलदङ्गारचूर्णम् / पृश् पालनपूरणयोः / पूर्यते जलघातेन पुपुरः फेनः / तृ प्लवनतरणयोः। तीर्यतेऽनेनास्मिन् वा तितिरः संक्रमः / भृश् भर्जने च। भूर्यते संचीयते भुर्भुरः संचयः / शृश् हिंसायाम् / शीर्यते समंतात् शिशिरः पुञ्जः / पृपलिभ्यां टित् पिप् च पूर्वस्य // 11 // आभ्यां टित् अः प्रत्ययः स्यात् अनयोश्च सरूपे द्वे रूपे पूर्वस्य च स्थाने पिप इत्यादेशः / पृश पालनपूरणयोः। पृणाति छायया पिप्परी वृक्षजातिः / पल गतौ / पलत्यातुरं पिप्पली औषधजातिः। टित्करणं ङयर्थम् / __ क्रमिमथिभ्यां चन्मनौ च // 12 // आभ्यामः प्रत्ययः, सरूपे च द्वे रूपे पूर्वस्य च स्थाने यथासंख्यं चन् मन् इत्यादेशौ स्याताम् / क्रम् पादविक्षेपे / कामति सुखमनेनास्मिन् वा चङ्गमः संक्रमः / मथे विलोडने / मथति चित्तं रागिणां मन्मथः कामः।