SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ 732 सिद्धहैमबृहत्पक्रिया. [ कृदन्ते . भव्यं च / ष्ण वेष्टने / स्नायति स्नायुः अस्थिनहनम् / षण भक्तौ, षण्यी दाने वा। सनति सनोति वा मृगादीनिति सानु पर्वतैकदेशः। जनैचि प्रादुर्भावे / जयतेऽनेनाकुश्चनादि जानु ऊरुजङ्गासंधिमण्डलम् / जानीत्याकारनिर्देशात न जनवधः' इति प्रतिषिद्धाऽपि वृद्धिर्भवति / रह त्यागे। रहति गृहीला सूर्याचन्द्रमसौ स्वशरीरं वा राहुः सैंहिकेयः / इणक् गतौ / एत्यायुः पुरुषः, शकटम् , औषधम् , जीवनम् , पुरूरवःपुत्रो वा / जरायुः गर्भवेष्टनं जलमलं वा। जटायुः पक्षी / धनायुः देशः। रसायुः भ्रमरः। 'संपदानाच्चान्यत्रोणादयः' इति यथायोगं प्रत्ययो वेदितव्यः। ____ अः // 2 // सर्वस्माद् धातोर्यथायोगमकारः प्रत्ययः स्यात् / भवः / तरः / वरः / प्लवः / शयः / शरः / परः। करः / स्तवः / चरः / वदः / ____ म्लेच्छीडेईस्वश्च वा // 3 // आभ्यामः प्रत्ययः स्याहीर्घस्य च इस्वो वा / म्लेच्छ अव्यक्तायां वाचि / म्लिच्छः मूकः। म्लेच्छः कुमनुष्यजातिः। ईडिक् स्तुतौ / इड; ईडो देवताविशेषौ मेदिनी च। ननः क्रमिगमिशमिखन्याकमिभ्यो डित् // 4 // नत्रः परेभ्यो डित् अः प्रत्ययः स्यात् / क्रम् पादविक्षेपे / न क्रामति नक्रः जलचरो ग्राहः। गम्लं गतौ / नगः वृक्षः पर्वतश्च / शमूच उपशमे / नशः यक्षः। खनूग अवदारणे / नखः करजः। नास्य खमस्तीति वा नख इत्यपि / कमूङ् कान्तौ / नाकः स्वर्गः। नात्राकमस्तीति नाक इत्यपि / नखादिखात् ' अन् स्वरे' इत्यन् न भवति / डित्करणमन्त्यस्वरादिलोपार्थम् / तुदादिविषिगुहिभ्यः कित् // 5 // तुदादिभ्यो विषिगुहिभ्यां च कित् अः प्रत्ययः स्यात् / तुदः / नुदः / क्षिपः / सुरः। बुधः। सुरत् ऐश्वर्यदीप्त्योः / तुदादिर्न धातुगणः किं तर्हि भिन्न इति / तेन बुधादीनामिति लिङ्गपरिणामस्तु ज्ञेयः। शिवः। तुदादीनां यथासंभवं कारकविधिः। विष्लंकी व्याप्तौ / वेवेष्टि विषं पाणहरं द्रव्यम् / गुहौग संवरणे / गृहति गुहः स्कन्दः। गुहा पर्वतैकदेशः। विन्देर्नलुक् च // 6 // विन्देः किन अः प्रत्यय: स्यात् तत्संनियोगे च नस्य लुक् च / विदु अवयवे / विदः गोत्रकृद् वृक्षजातिश्च / . कृगो द्वे च // // करोतेः कित् अः प्रत्ययः स्यात् अस्य धातोट्टै रूपे भवतः / डुकुंग् करणे / चक्रं रथाङ्गमायुधं च /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy