________________ 731 उणादिप्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. // अथोणादिविवृतिः // 1021 उणादयः // 5 / 2 / 93 // बहुलमिति वर्तते / सत्यर्थे वर्तमानाद् धातोरुणादयः प्रत्यया बहुलं स्युः / करोतीति कारुः। वायुः / पायुः / बहुलवचनात् प्रायः संज्ञाशब्दाः केचित्त्वसंज्ञाशब्दा इति अनुक्ता अपि प्रत्यया भवन्ति / ऋफिडः / ऋफिड्डः। तथा सति विहिता उणादयः कचिद भूतेऽपि दृश्यन्ते / भसितं तदिति भस्म, कषितोऽसौ कषिः, ततोऽसौ तनिः, वृत्तं तदिति वर्त्म, चरितं तदिति चर्म, अद्भ्यः सरन्ति स्म अप्सरसः / उक्तं च " संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे / कार्यानुबन्धोपपदं विज्ञातव्यमुणादिषु " // 1 // तथा-" बाहुलकं प्रकृतेस्तनुदृष्टेः पायसमुच्चयनादपि तेषाम् / कार्यसशेषविधेश्च तदूह्यं नैगमरूढिभवं हि सुसाधु // 2 // " नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम् / ... यत् न पदार्थविशेषसमुत्थं प्रत्ययतः प्रकृतेश्च तदृह्यम् " // 3 // कृवापाजिस्वदिसाध्यशौदृस्नासनिजानिरहीणभ्य उण // 1 // करो. त्यादिभ्यो धातुभ्यः सत्यर्थे वर्तमानेभ्यः संप्रदानापादानाभ्यामन्यत्र कारके भावे च संज्ञायां विषये बहुलमुण् प्रत्ययः स्यात् / डुकंग करणे, कुंग्ट हिंसायाँ वा निरनुबन्धग्रहणे सामान्यग्रहणात् / करोति करति कृणोति वा कारुः कारी नापितादिः इन्द्रश्च / वाक् गतिगन्धनयोः, ओवै शोषणे वा / वाति वायति वा द्रव्याणि वायुः नभस्वान् / पां पाने / पिबन्त्यनेन तैलादि द्रव्यं पायुः अपानमुपस्थश्च / पातिपायत्योस्त्वर्थासंगतेर्न ग्रहणम् / जिं अमिभवे / जयत्यनेन रोगान् श्लेष्माणं वा जायुः औषधं पित्तं वा / ष्वदि आस्वादने / स्वद्यते इदमनेन वा स्वादुः रुच्यः / स्वदनं वा स्वादुः। साधंट् संसिद्धौ। उत्तमक्षमादिभिः तपोविशेषैर्भावितात्मा साध्नोति साधुः / सम्यग्दर्शनादिभिः परमपदं साधयति वा साधुः संयतः / उभयलोकफलं वा साधयति साधुः धर्मशीलः / अशौटि व्याप्तौ / अनुते तेजसा सर्व केदारं वा इत्याशुः सूर्यो व्रीहिश्च। अशनं वा आशु क्षिप्रम्। अनुते इति वा आशुः शीघ्रगामी शीघ्रकारी च / दृ भये, दृश् विदारणे वा / दरति दृणाति दीर्यते वा दारु काष्ठं