________________ 730 सिद्धहैमबृहत्मक्रिया. [कृदन्ते 1018 दंशेस्त्रः॥ 5 / 2 / 90 // दंशेः सत्यर्थे वर्तमानात् करणे त्रः प्रत्ययः स्यात् / दशत्यनया दंष्ट्रा / प्रत्ययान्तरकरणमाबर्थम् / 1019 धात्री // 5 / 2 / 91 // धेर्दधातेर्वा कर्मणि ब्रट् प्रत्ययो निपात्यते / धयन्ति तामिति धात्री स्तनदायिनी / दधति तां भैषज्यार्थमिति धात्री आमलकी / 1020 ज्ञानेच्छा र्थनीच्छील्यादिभ्यः क्तः // 5 / 2 / 92 // ज्ञानार्थेभ्य इच्छार्थेभ्योऽर्चा-पूजा तदर्थेभ्यो जीभ्यः शीलादिभ्यश्च धातुभ्यः सत्यर्थे वर्तमानेभ्यः क्तः प्रत्ययः स्यात् / पूर्ववच्चास्य कर्तृकर्माधर्थर्देशः / ज्ञानार्थ-राज्ञां ज्ञातः, बुद्धः, विदितः, अवगतो वा / इच्छार्थ-राज्ञामिष्टः, मतः / अर्चार्थ-राज्ञामर्चितः, पूजितः। भित-बिमिदा-मिन्नः / विण्णः। स्विन्नः / धृष्टः। तूर्णः / सुप्तः। भीतः / इद्धः। वृषितः / फुल्लम शील्यादि शीलितो, रक्षितः, क्षान्त, आकृष्टो जुष्ट उद्यतः // संयतः शयितस्तुष्टो रुष्टो रुषित आशितः // 1 // कान्तोऽभिव्याहृतो हृष्ट-स्तृप्तः मृप्तः स्थितो भृतः // अमृतो मुदितः पूर्तः शक्तोऽक्तः श्रान्तविस्मितौ" // 2 // संरब्धारब्धदयिता दिग्धः स्निग्धोऽवतीर्णकः // आरूढो मूढ आयस्तः क्षुधितक्लान्तबीडिताः // 3 // मत्तश्चैव तथा क्रुद्धः श्लिष्टः सुहित इत्यपि // लिप्तदृप्तौ च विज्ञेयौ सति लग्नादयस्तथा" // 4 // बहुलाधिकाराद् यथाभिधानमेभ्यो भूतेऽपि तो भवति / तथा च तद्योगे तृतीयासमासोऽपि सिद्धः-'अर्हस्त्रिभुवनराजपूजितेभ्यः' इति / एवं शीलितो मैत्रेण रक्षितो मैत्रेणाक्रुष्टश्चैत्रेणेत्यादावपि द्रष्टव्यम् / वर्तमानक्ते तु षष्ठ्येव-'कान्तो हरिश्चन्द्र इव प्रजानाम्' इति / अन्ये तु ज्ञानाद्यर्थेभ्यः तक्रकौण्डिन्यन्यायेन भूते क्तस्य बाधनात् वर्तमानक्तेन च योगे कर्तरि षष्ठीविधानात् खया ज्ञातो मया ज्ञात इत्यादिरपशब्द इति मन्यन्ते / // इति श्रीसिद्धहैमबृहत्मक्रियायां कृदन्तप्रकरणे पूर्वकृदन्तप्रक्रिया /