SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ भकरणम् ] सिद्धहैमबृहत्मक्रिया. 729 दिप्रत्ययानां पूर्णोऽवधिः। केचित्तु संज्ञाशब्दानां शीलाद्यर्थेषु कामचारस्ते यथाकथंचिद् व्युत्पादनीयाः इति मन्यन्ते / 1012 शंसंस्वयंविषाद् भुवो डुः // 5 / 2 / 84 / / एभ्यः पराद् भुवः सत्यर्थे वर्तमानाद् डुः प्रत्ययः स्यात् / शं सुखं तत्र भवति शंभुः शंकरः। संभुर्जनिता / स्वयंभुः / विभुः व्यापकः / प्रभुः स्वामी / बहुलाधिकारात् शंभुः संज्ञायाम् / अन्ये त्वसंज्ञायामपि / मितद्वादयस्त्वौणादिकाः / 1013 पुव इत्रो दैवते // 1 / 2 / 85 / / सामान्यनिर्देशात् पवतेः पुनातेश्च दैवते-देवतायां कर्तरि सत्यर्थे इत्रः प्रत्ययः स्यात् / पुनाति पवते वा पवित्रोऽईन् स मां पुनातु / करणेऽप्यन्ये / 1014 ऋषिनाम्नोः करणे // 5 // 2 // 86 // सत्यर्थे वर्तमानात् पुवः करणे इत्रः स्यात् ऋषौ संज्ञायां च / पूयतेऽनेनेति पवित्रोऽयमृषिः। नान्नि-दर्भः पवित्रः। बर्हिः पवित्रम् / यज्ञोपवीतं पवित्रम् / ओघोपकरणं पवित्रम् / पवित्रा नदी / दर्भादीनां पवित्रमिति संज्ञा / ऋषौ कर्तर्यपि केचित् / ___1015 लूधूसूखनचरसहार्तेः // 5 / 2 / 87 // एभ्यः सत्यर्थे वर्तमानेभ्यः करणे इत्रः स्यात् / लुनात्यनेन लवित्रम् / धुवत्यनेन धुवित्रम् / धुनोतेरपि कश्चित् / धवित्रम् / मुवत्यनेन सवित्रम् / निरनुबन्धनिर्देशात् धूग्सूङोर्ने / खनित्रम् / चरित्रम् / सहित्रम् / ऋच्छतीयतिवानेनारित्रम् / वहेरपि कश्चित् / वहित्रम् / 1016 नीदांशसूयुयुजस्तुतुदसिसिचमिहपतपानहस्त्रट / 5 / 2 / 88 / एभ्यः सत्यर्थे वर्तमानेभ्यः करणे त्रट् प्रत्ययः स्यात् / नयन्त्यनेन नेत्रम् / दांव-दान्त्यनेन दात्रम् / शमू-शस्त्रम् / यु-योत्रम् / युज् योक्त्रम् / स्तु-स्तोत्रम् / तद-तोत्रम् / सि-सेत्रम् / सिच-सेक्त्रम् / मिह-मेढ़म् / पत्-पत्रम् / पा-पात्रम् / पात्री / ना-नद्रः, नद्री / टकारो डन्यर्थः / 1017 हलक्रोडास्ये पुवः // 5 / 2 / 89 // आस्यं मुखम् / पुवो धातोः सत्यर्थे हलास्ये क्रोडास्ये च करणे त्रट प्रत्ययः स्यात् / पुनाति पवते वाऽनेन पोत्रम् / हलस्य मूकरस्य वा मुखमुच्यते / 92
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy