SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ 728 सिद्धहैमबृहत्प्रक्रिया. [ कृदन्त __1008 तृषिधृषिस्वपो नजिङ् // 5 / 2 / 80 // तृषिधृषिस्व पिभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यो नजिङ प्रत्ययः स्यात् / तृष्यतीत्येवंशीलस्तृष्णक् / तृष्णजौ / धृष्णक् / धृष्णजौ / स्वप्नक / स्वप्ननौ / ङ कारो गुणप्रतिषेधार्थः / इकार उच्चारणार्थः / धृषो नेच्छन्त्येके / / 1009 स्थेशभासपिसकसो वरः // 5 / 2 / 81 // स्थादिभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यो वरः प्रत्ययः स्यात् / तिष्ठतीत्येवंशीलः स्थावरः, स्थावरा / ईश्वरः, ईश्वरा / कथमीश्वरी ? 'अश्नोरीचादेः' इत्यौणादिके वरटि भवति / भास्वरः, भास्वरा / पेस्वरः। पेस्वरा / विकस्वरः, विकस्वरा / प्रमदेरपीति कश्चित् / प्रमाद्यति प्रमद्वरः। 1010 यायावरः // 5 / 2 / 82 // यातेर्धातोः शीलादौ सत्यर्थे वर्तमानाद् वरः प्रत्ययो निपात्यते / कुटिलं यातीत्येवंशीलो यायावरः। 1011 दिद्युद्ददृजगज्जुहूवाक्माधीश्रीस्त्रज्वायतस्तूकटप्रूपरिवाड्भ्राजादयः किपः // 5 / 2 / 83 // एते शब्दाः किबन्ताः शीलादौ सत्यर्थे निपात्यन्ते / द्योतते इत्येवंशीलो दिद्युत् / दृणातीति ददृत् / गच्छतीति जगत् / जुहोतीति जुहूः / एषु द्वित्वम् / दृणातिजुहोत्यो स्वखदीर्घत्वे च / वक्तीति वाक् / पृच्छतीति प्राट् / शब्दप्राट् / तत्वप्राट् / दधाति ध्यायति वा धीः / श्रयतीति श्रीः। शतं द्रवति शतः। स्रवतीति चूः। जवतीति जूः / आयतं स्तौतीति आयतस्तूः / कटं प्रवते कटपूः। परिव्रजतीति परित्राट् / एषु दीर्घवम् / दधातेराकारस्य ध्यायतेर्याशब्दस्य चेकारः / बहुलाधिकारादशीलादौ अपि / धीः / सुधीः। प्रधीः। आधीः। भ्राजादि-विभ्राजते इति विभ्राट् / भासते इति भाः। पिपर्तीति पूः। धूर्वतीति धूः / विद्योतते विद्युत् / ऊर्जयतीति ऊर्छ / ग्रावाणं स्तौतीति ग्रावस्तुत् / पचतोति पक् / शनोतीति शक् / भिनतीति भित् / वेत्तीति वित् / शोकच्छित् / 'भुवः संज्ञायामेव / ' भूः पृथिवी / शंभूः शिवः। आत्मभूः कामः। मनोभूः स एव / स्वयंभूर्ब्रह्मा / स्वभूविष्णुश्च / मित्रभूर्नाम कश्चित् / प्रतिभूः उत्तमर्णाधमर्णयोः अन्तरस्थः। इन्भूः व्यसनसहायः। कारभूः पण्यमूल्यादि निर्णता / वर्षाभूर्दर औषधिश्च। पुनर्भूः पुनरूढा औषधिश्च संज्ञायाम् / अन्यत्र, भविता। शीलादिषु असरूपविधिर्नास्ति / तेन सामान्यलक्षणः किए न प्रामोतीति पुनर्विधीयते / शीला
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy