________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 727 1001 मृघस्यदो मरक् // // / 73 / / एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यो मरक् प्रत्यय: स्यात् / सरतीत्येवंशीलः समरः / घस्मरः / अझरः। 1002 भञ्जिभासिमिदो घुरः // 5 / 2 / 74 // एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यो घुरः प्रत्यय: स्यात् / भज्यते स्वयमेवेत्येवंशीलं भङ्गुरं काष्ठम् / भासते भासुरं वपुः / मेधति मेदने वा मेदुरः / घकारो गत्वार्थः / 1003 वेत्तिच्छिदभिदः कित् / / 5 / 2 / 75 // एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यः कित् घुरः प्रत्ययः स्यात् / वेत्तीत्येवंशीलो विदुरः। छिद्यते भिद्यते स्वयमेव छिदुरः, भिदुरः / कित्वाद् गुणो न / वेत्तीति तिनिर्देश इतरविदित्रयव्युदासार्थः। 1004 भियो रुरुकलुकम् // 5 / 276 // शीलादौ सत्यर्थे वर्तमानाद् विभेते रुरुकलुक इति प्रत्ययत्रयं कित् स्यात् / विभेतीत्येवंशीलो भीरु.! भीरुकः / भीलुकः। ऋफिडादित्वात् लत्वं प्रयोगानुसरणाद् गरीय इति लाघवाथै लुकवचनम् / 1005 सृजीग्नशष्ट्वरप् // 5 / 277 // एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यः कित् वरप् प्रत्ययः स्यात् / सरतीत्येवंशीलः मृत्वरः / मृत्वरी / जित्वरः, जित्वरी / इण-इत्वरः, इत्वरी / क्रूरकर्मणि पथिके नीचे दुर्विधे / नश्वरः नश्वरी / टकारो ङयर्थः / पकारस्तागमार्थः / 1006 गत्वरः / / 5 / 2 / 78 // गमेष्वरप् मकारस्य च तकारो निपात्यते / गत्वरः, गत्वरी। 1007 स्म्यजसहिंसदीपकम्पकमनमो रः // 5 // 279 // स्म्यादिभ्यः शोलादौ सत्यर्थे वर्तमानेभ्यो रः प्रत्ययः स्यात् / स्मयत इत्येवंशीलं स्मेरं मुखम् / अजसिति जमूच मोक्षणे-नपूर्वः / न जस्यति अजस्रं श्रवणम् / अजस्रा प्रवृत्तिः। अजस्रः पाकः / अजस्रं पचति / अजस्रशब्दोऽयं स्वभावात् सातत्यविशिष्टां क्रियामाह / तेन धात्वर्थ एव कर्तरि रः प्रत्ययोऽन्यथा क्रियाभिधानानुपपत्तेः। तेनाजस्रो घट इति न। अजस्रमित्यव्ययं नित्यार्थ क्रियाविशेषणमप्यस्ति। हिंस्-हिंस्रो व्याधः। दीप-दीपो दीपः / कम्प-कम्पः / कम्-कामयते कम्रा युवतिः। बहुलाधिकारात् कर्मण्यपि / कम्यते कम्रः / तत एव कमितेत्यपि / नम्-नमतीति नम्रः / अजसिकमिनमिभ्यः कर्मकर्तर्येवेच्छन्त्येके /