________________ सिद्धहैमबृहत्प्रक्रिया. [कृदन्त 996 वादेश्च णकः // 1 / 2 / 67 // परिपूर्वाच्छीलादौ सत्यर्थे वर्तमानाद् वादयतेः क्षिपरटिभ्यां च णकः प्रत्ययः स्यात् / परिवादयतीत्येवंशीलः परिवादकः। वदेरपीति केचित् / परिक्षेपकः / परिराटकः / असरूपत्वात् ‘णकतृचौ' इति सिद्धे पुनर्विधानं शीलादिप्रत्ययेष्वशीलादिकृत्प्रत्ययोऽसरूपविधिना न भवतीति ज्ञापनार्थम् / तेनालंकारकः परिक्षिपः परिरट इत्यादिशीलाद्यर्थ न भवति / बाहुलकात् कचिद् भवत्यपि / 'कामक्रोधौ मनुष्याणां खादितारौ वृकाविव' / अत्र णकविषये तृच् / 997 निन्दहिंसक्लिशखादविनाशिव्याभाषासूयाऽनेकस्वरात् // 5 / 2 / 68 // एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यो णकः स्यात् / निन्दतीत्येवंशीलो निन्दकः / हिंसकः / क्लिश्नाति क्लिश्यते वा क्लेशकः / खादकः / विनाशयति विनाशकः / व्याभाषकः / असूयः कण्ड्डादौ / अम्यकः / दरिद्रायकः / चकासका गणकः / चुलुम्पकः / अनेकस्वरत्वादेव सिद्धेऽसूयग्रहणं कण्ड्वादिनिवृत्त्यर्थम् / तेन कण्डूयिता, मन्तूयिता-तृन्नेव / विनाशिग्रहणं तु अन्यस्य ण्यन्तस्य निवृत्त्यर्थम् / कारयिता / अनेकस्वरान्नेच्छन्त्यन्ये / क्लिशेरविशेषेण ग्रहणादेवादिकादिदित्त्वेऽपि अनो न। 998 वृशिक्षिलुण्टिजल्पिकुट्टाहाकः / 5 / 2 / 70 // एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यष्टाकः प्रत्ययः स्यात् / वृणीते इत्येवंशीलो वराकः / वराकी / भिक्षाकः, भिक्षाकी। लुण्टाकः, लुण्टाकी / जल्पाकः, जल्पाकी / कुट्टाकः, कुट्टाकी। टकारो ङयर्थः। 999 प्रात्सूजोरिन् // 5 / 271 // प्रात् पराभ्यां सुवतिजुभ्यां शीलादौ " सत्यर्थे वर्तमानाभ्यामिन् प्रत्ययः स्यात् / सू इति निरनुबन्धग्रहणात् सुवतेहणं न सूतिसूयत्योः / प्रसुवतीत्येवंशीलः प्रसवी / प्रजवी। 1000 जीणदृक्षिविश्रिपरिभूवमाभ्यमाव्यथः // 5 / 272 // एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्य इन् स्यात् / जि-जयतीत्येवंशीलोजयी / इण-अत्ययी उदयी / -आदरी / क्षोति शिक्षितोर्ग्रहणम् / क्षयी / विधि-विश्रयी / परिभू-परिभवी। वम्-वमी / अभ्यम्-अभ्यमी / अव्यथ्-न व्यथते इत्यव्यथी।