________________ प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. 723 किम् / एधिता। शयिता / अकर्मकादित्येव / वसिता वस्त्रम् / सेविता विषयान् / कथमुत्कण्ठावर्धनैरिति ? नात्र कर्मषष्ठीसमासो वृधेरकर्मकखात् / किंतु तृतीयासमासः। उत्कण्ठया वर्धनैः-वर्धमानोत्कण्ठाशीलैरिति यावत् / अन्ये वकर्मकादेवेति नेच्छन्ति / __974 न णियसूददीपदीक्षः // 5 / 2 / 45 // णिङन्तेभ्यो यान्तेभ्यः मृदादिभ्यश्च धातुभ्यः शीलादौ सत्यर्थेऽनः प्रत्ययो न स्यात् / भावयिता / हस्तयिता। उत्पुच्छयिता / क्ष्मायिता / क्न्यिता। दयिता / सूदिता / दीपिता। दीक्षिता / मधुसूदनारिसूदनबलसूदनादयो नन्यादिषु द्रष्टव्याः। 975 द्रमक्रमो यङः / / 5 / 2 / 46 / / शीलादौ सत्यर्थे वर्तमानाभ्यां यङन्ताभ्यां द्रमिक्रमिभ्यामनः प्रत्ययः स्यात / कुटिलं द्रमति क्रामतीत्येवंशील:-दन्द्रमणः, चङ्क्रमणः। सकर्मकाथ 'य' इति प्रतिषेधनिवृत्त्यर्थं च वचनम् / 'अतः' इति हि लुक् प्रत्यये विषयभूतेऽपि भवति / 976 यजिजपिदंशिवदादूकः॥५।२।४७॥ एभ्यो यङन्तेभ्यः शीलादौ सत्यर्थे वर्तमानेभ्य ऊकः प्रत्ययः स्यात् / भृशं पुनःपुनर्वा यजतीत्येवंशीलो यायजकः / जञ्जपूकः / दन्दशूकः / वावदकः / अन्येभ्योऽपीति केचित् / दन्दहकः। पापयूकः। निजागदूकः / नानशूकः। पंपशूकः / 977 जागुः // 5 / 2 / 48 // शीलादौ सत्यर्थे वर्तमानाजागर्तेरूकः प्रत्ययः स्यात् / यङ इति निवृत्तम् / जागर्तीत्येवंशीलो जागरूकः / 978 शमष्टकाद् घिनण् // 5 // 2 // 49 // शीलादौ सत्यर्थे वर्तमानेभ्यः शमादिभ्योऽष्टाभ्यो धातुभ्यो घिनण् प्रत्ययः स्यात् / शाम्यतीत्येवंशीलः शमी। दमी / तमी। श्रमी / भ्रमी / क्षमी / प्रमादी / उन्मादी / क्लमी। घन्तान्मत्वथींयेनैव सिद्धयति तन्वाधनार्थ तु वचनम् / अष्टकादिति किम् / असिता / णकारो वृद्धयर्थः / घकार उत्तरत्र कत्वगत्वार्थः। अभिधानात् घिनण अकर्मकेभ्यस्तेनेह न / अरण्यं भ्रमिता / सकर्मकेभ्यस्तु यथादर्शनं दर्शयिष्यामः। 979 युजभुजभजत्यजरञ्जद्विषदुषद्रुहदुहाभ्याहनः॥५।२।५०॥ एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यो घिनण् स्यात् / युज्यते युनक्ति वा इत्येवंशीलो योगी।