________________ 722 सिद्धहैमबृहत्मक्रिया. [कृदन्त 970 लषपतपदः // 5 // 2 // 41 // शीलादौ सत्यर्थे वर्तमानेभ्य एभ्य उकण् प्रत्यय: स्यात् / अपलपतीत्येवंशीलम् अपलाषुकं नीचसांगत्यम् / अभिलाषुकः। उत्पातुकं ज्योतिः। प्रपातुका गर्भाः / उपपादुका देवाः। योगविभाग उत्तरार्थः। 971 भूषाक्रोधार्थजुमृगृधिज्वलशुचश्चानः // 5242 // भूषार्थेभ्यः क्रोधार्थेभ्यो जुसृगृधिज्वलशुचिभ्यः लषपतपदिभ्यश्च शीलादौ सत्यर्थे वर्तमानेभ्योऽनः प्रत्ययः स्यात् / भूषार्थे-भूषयतीत्येवंशीलो भूषणः कुलस्य / मण्डना गगनस्य भाः / प्रसाधनः क्रोधार्थ-क्रोधनः / कोपनः / रोषणः / जवतिः सौत्रो वेगाख्ये संस्कारे वर्तते। तेन चल्यर्थद्वारेण न सिद्धयतीतीहोपादानम् / जवनः / स-सरणः। गृधू गर्धनः। ज्वल्-ज्वलनः / शुच्-शोचनः। लप्अभिलषणः / पत्-पतनः / पदेरिदित्त्वादुत्तरेणैव सिद्धे सकर्मकार्थ वचनम् / अर्थस्य ग्रन्थस्य क्षेत्राणां पदनः / उत्तरत्र सकर्मकेभ्योऽपि विधिरित्येकेषां दर्शनम्। तथा चोकणा बाधितोऽपि असरूपखात् पदेरनः प्रत्ययो भविष्यतीति चेत् एवं तर्हि शीलादिप्रत्ययेष्वसरूपत्वेन शीलादिप्रत्ययो न भवतीति ज्ञापनार्थ पदिग्रहणम् / तेन चिकीर्षिता कटम् अलंकर्ता कन्यामिति न / कथं तर्हि गन्ता खेलः आगामकः भविता भावुक: जागरिता जागरूकः विकत्थनः विकत्थी भासनं भासुरं वर्धनः वर्धिष्णुः अपलाषुकः अपलाषी कम्पना कम्पा शाखा कमना कामुका युवतिः ? कचित् समावेशोऽपि भवति / एतदर्थमेव च ' न ण्यादि ' इति सूत्रे दीपिग्रहणम् / अन्यथा रेणानो बाध्येत इति तदनर्थकं स्यात् / अनस्यैव विषये समावेश इत्येके / 972 चलशब्दार्थादकर्मकात् // 5 // 2 // 43 // चलनार्थाच्छब्दार्थाच्च धातोः शीलादौ सत्यर्थे वर्तमानादकर्मकादविद्यमानकर्मकादविवक्षितकर्मकाद्वा परोऽनः प्रत्ययः स्यात् / चलतीत्येवंशीलश्चलनः / कम्पनः / चोपनः / चेष्टनः / शब्दयतीत्येवंशीलः शब्दनः। रवणः। आक्रोशनः / अकर्मकादिति किम् / पठिता विद्याम् / 973 इडितो व्यञ्जनाद्यन्तात् // 2 // 44 // व्यञ्जनमादिरन्तश्च यस्य स व्यञ्जनाद्यन्तः / इदनुबन्धात् ङानुबन्धाच व्यञ्जनाद्यन्ताद् धातोः शीलादौ सत्यर्थ वर्तमानादनः प्रत्ययः स्यात। इदित-स्पधि-स्पर्धनः। डिन्त-वृतूङ–वर्तनः। वृधङवर्धनः / णेरतश्च विषय एव लोपे व्यञ्जनान्तखात् इहापि भवति / चितिण-चेतनः। गुपि-जुगुप्सनः / मानि मीमांसनः। इडिन्त इति किम् / स्वप्ता / व्यञ्जनाद्यन्तादिति