________________ 72 प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. धे-सि-शद-सद-इत्येतेभ्यो रुः प्रत्ययः स्यात / ददाति दयते यच्छति धति दाति दायति वेत्येवंशीलो दारुः / कथं द्यति तदिति दारु काष्ठम् ? औणादिकः कर्मणि रुः / धयति धावत्सो मातरम् / सिनोति सेरुः / शीयते शद्रः / सीदति सद्रुः। एभ्य इति किम् / दवातीत्येवंशीलोदधिगधेग्रहणादारूपमिह गृह्यते न संज्ञा। 966 शीशद्वानिद्रातन्द्रादयिपतिगृहिस्पृहेरालुः॥५२॥३७॥ एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्य आलुः प्रत्ययः स्यात् / शेते इत्येवंशीलः शयालुः / श्रपूर्वो धाग्-श्रद्धत्ते श्रद्धालुः / निद्राति निद्रायति वा निद्रालुः / तत् द्राति द्रायति वा तन्द्रालुः / निपातनात् तदो दस्य नः / तन्द्रेति सौत्रो वा / दयते दयालुः / पतिगृहिस्पृहयोऽदन्ताश्चौरादिकाः। पतिगृही सौत्राविकारान्तौ वा। पतयति पतयालुः। गृहयति गृहयालुः / स्पृहयति स्मृहयालुः। मृगयतेरपि कश्चित् / मृगयालुः। लज्जालुः, ईर्ष्यालुः, शलालुप्रभृतयस्त्वौणादिकाः। कृपालहृदयालू मत्वर्थीयान्तौ / 967 ङौ सासहि वावहि चाचलि पापति // 5 // 2 // 38 // शीलादौ सत्यर्थे वर्तमानानां सहिवहिचलिपतीनां यङन्तानां ङौ सति यथासंख्यमेते निपात्यन्ते / अत एव वचनाद् डिरपि / सासद्यते इत्येवंशीलः सासहिः। वावह्यते वावहिः। चाचल्यते चाचलिः। पनीपत्यते पापतिः। निपातनात् न्यागमाभावः। ङाविति ङकारः 'तृन्नुदन्ताव्ययकस्वान ' इत्यत्र विशेषणार्थः। 968 सस्त्रिचक्रिदधिजजिनेमि // 5 // 2 // 39 // एते शीलादौ सत्यर्थे कृतद्विवचना ङिप्रत्ययान्ता निपात्यन्ते / सरतीत्येवंशीलः ससिः। करोति चक्रिः / दधाति दधिः / जायते जानाति वा जज्ञिः। नमति नेमिः। द्विर्वचनाभाव एत्वं च निपातनात् / 969 श्रृंकमगमहनवृषभूस्थ उकण् // 5 // 2 // 40 // शीलादौ सत्यर्थे वर्तमानेभ्य एभ्य उकण प्रत्ययः स्यात् / शृणाति एवंशीलः शारुकः। प्रशारुकः शरः / कामुकः, कामुकी रिरंसुः / कामुका येच्छां विना कामयते / कामुका अन्यस्य स्त्रियो भवन्ति / गामुकः आगामुकः स्वगृहम् / घातुकः, आघातुको व्याधः। वर्षकः, प्रवषुकः पर्जन्यः / भावुकः। प्रभावुकः क्षत्रियः। स्थायुका प्रमत्तः। उपस्थायुको गुरुम् / गुणानधिष्ठायुकः।