SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ 718 सिद्धहैमबृहत्पक्रिया. [कृदन्त समन्वयाभावादभावः / पक्ष्यन्तं पक्ष्यमाणं पश्य / हे पक्ष्यन् पक्ष्यमाण ब्राह्मण / पाक्ष्यतः, पाक्ष्यमाणिः, पक्ष्यमाणपाशः। पक्ष्यद्भक्तिः, पक्ष्यमाणप्रियः। जल्पिष्यन्तो ज्ञास्यन्ते पण्डिताः। अध्येष्यमाणा वत्स्यन्तीत्यादि / सदेष्यतोरभावे तु श्वः पक्ता। बहुलाधिकाराद् द्रव्यगुणयोर्लक्षणे हेतुहेतुमद्भावद्योतके त्यादियोगे च न / यः कम्पते सोऽश्वत्थः / यत्तरति तल्लघु / हन्तीति पलायते / वर्षतीति धावति / करिष्यतीति व्रजति / हनिष्यतीति नश्यति / पचत्यतो लभते / विजयतेऽतः पूज्यते / क्रियाया अपि लक्षणे चादियोगे न / यः पचति च पठति च स चैत्रः। योऽधीते चास्ते स मैत्रः / शकारः शित्कार्यार्थः / ऋकारो ङयाद्यर्थः / 950 तौ माङयाक्रोशेषु // 1 / 2 / 21 // माङयुपपदे आक्रोशे गम्यमाने सति तो शत्रानशौ प्रत्ययौ स्याताम् / मा पचन् वृषलो ज्ञास्यति। मा पचमानोऽसौ मर्तुकामः। " मा जीवन् यः परावज्ञा-दुःखदग्धोऽपि जीवति // तस्याजननिरेवास्तु जननीक्लेशकारिणः " // 1 // शत्रानशोरनुवृत्तावपि 'तो' ग्रहणमवधारणार्थम् / तेनात्र विषये असरूपविधिनाऽप्यद्यतनी न / भवतीत्यपि कश्चित् / 951 वा वेत्तेः कसुः // 22 // सत्यर्थे वर्तमानाद वेत्तेः कम्प्रत्ययो वा वा स्यात् / पक्षे यथाप्राप्तम् / विद्वान् / साधुस्तत्त्वं विद्वान् विदन् वेत्ति / विदुषा कृतम् / विदता कृतम् / हे विद्वन् , हे विदन् / वैदुषः। वैदतः। विद्वद्भक्तिः,विदद्भक्तिः। विद्वानास्ते / विदन्नास्ते / विद्वाल्लभते, विल्लभते / द्वितीयाद्यन्तपदसामानाधिकरण्यादिषु पूर्ववदनन्धयादेव न वर्तमाना / ककारःकित्कार्यार्थः। उकारो ङयाद्यर्थः। 952 पूङ्यजः शानः // 5 / 2 / 23 // सत्यर्थे वर्तमानाभ्यां पवतियजिभ्यां परः शानः स्यात् / कृत्त्वात् कर्तरि / पवते, पवमानः / मलयं पवमानः / यजति यजते वा यजमानः। आनशा योगे न षष्ठीसमासो न च यजेरफलवति कर्तरि सोऽस्तीति वचनम् / एवमुत्तरत्रापि / शकारः शित्कार्यार्थः / 953 वयःशक्तिशीले // 5 / 2 / 24 // सत्यर्थे वर्तमानाद् धातोर्वयः
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy