________________ 719 प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. शक्तिशीलेषु गम्यमानेषु शानः स्यात् / वयः प्राणिनां कालकृता बाल्याद्यवस्था / कतीह शिखण्डं वहमानाः। स्त्रियं गच्छमानाः। शक्तिःसामर्थ्यम्-कतीह हस्तिनं निम्नानाः। समश्नानाः। शीलं स्वभावः। कतीहात्मानं वर्णयमानाः। परान्निन्दमानाः। अनभिधानान्न वाऽसरूपः शतः / 954 धारीङोऽकृच्छेऽतृश् // 5 / 2 / 25 / / अकृच्छ्रः सुखसाध्यः। अकृच्छे सत्यर्थ वर्तमानाद धारेरिङश्च परोऽतृश् प्रत्ययः स्यात् / धारयन् आचाराङ्गम् / अधीयन् द्रुमपुष्पीयम् / अकृच्छ इति किम् / कृच्छ्रेण धारयति यतिधर्मम् / कृच्छ्रेणाधीते पूर्वगतम् / इङ आनशि प्राप्ते धारेरुभयप्राप्तौ वचनम् / वासरूपोऽपि नेष्यत एव / 955 सुद्विषाहः सत्रिशत्रुस्तुत्ये // 5 / 2 / 26 // सत्यर्थे वर्तमानात् सुनोतेर्द्विषोऽर्हश्च धातोर्यथासंख्यं सत्रिणि शत्रौ स्तुत्ये च कर्तरि अतृश् प्रत्ययः स्यात् / सत्री यजमानः / सर्वे सुन्वन्तः यज्ञस्वामिन इत्यर्थः / चौरं चौरस्य वा द्विपन शत्रुरित्यर्थः / पूजामर्हन् प्रशस्य इत्यर्थः। एष्विति किम् / सुरां सुनोति / भार्या द्वेष्टि परं पश्यन्तीम् / वधर्हति चौरः। ___956 तृन् शीलधर्मसाधुषु // 1 / 2 / 27 // शीले धर्मे साधौ च सत्यर्थे वर्तमानाद् धातोस्तृन् प्रत्ययः स्यात् / शीले-कर्ता कटम् / वदिता जनापवादान् / करणं वदनं चास्य शीलमित्यर्थः / धर्मः कुलाद्याचारः, तत्र वधूमूढां मुण्डयितारः श्राविष्ठायनाः श्राद्धे सिद्धमन्नमपहर्तारः आह्वरकाः / मुण्डनादि तेषां कुलधर्म इत्यर्थः। साधौ-गन्ता खेलः / कर्ता विकटः। साधु गच्छति साधु करोतीत्यर्थः। नप्तनेष्टवदृक्षत्तृहोतृपोतप्रशास्तृशब्दा औणादिकाः पितृमात्रादिवत् / अत अत एवैषामाविधौ पृथगुपादानम् / शीलादिष्विति किम् / कर्ता कटस्य / बहुवचनं 'सनभिक्षाशंसेरुः' इत्यादौ यथासंख्यपरिहारार्थम् / नकारः सामान्यग्रहणाविघातार्थः। 977 भ्राज्यलंकृनिराकृग्भूसहिरुचिवृतिवृधिचरिप्रजनापत्रप इष्णुः // 8 / 2 / 28 // एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्य इष्णुः प्रत्ययः स्यात् / भ्राजनशीलो भ्राजनधर्मा साधु भ्राजते वा भ्राजिष्णुः। भ्राजिष्णुना लोहितचन्दनेन / अलंकृग-अलंकरिष्णुः। निराकृग-निराकरिष्णुः। भू-भविष्णुः। सर्वेषां भविष्णूनां जन्यानां न तु स योग्यः / सह-सहिष्णुः / रुच-रोचिष्णुः / वृत्-वर्तिष्णुः / वृध्