________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 717 पचन् / पचमानः। एकविषयत्वाद् वर्तमानापि-याति / एवं सर्वत्र / तथा सन् अस्ति, अधीयानः अधीते, विद्यमानः विद्यते, जुबत् जुहोति, विदन वेत्ति, जानन् जानाति ब्राह्मणः। तथा तरादौ प्रत्यये-पचत्तरः, पचत्तमः, पचतितमाम् / पचद्रूपः। पचतिरूपम् / जल्पत्कल्पः, जल्पतिकल्पम् / पश्यद्देश्यः, पश्यतिदेश्यम् , पठद्देश्यः, पठतिदेशीयम् / एवं पचमानतरः, पचमानतमः, पचतेतरां पचतेतमामित्यादि / द्वितीयाधन्तपदसामानाधिकरण्यसंबोधनतरादिवर्जिततद्धितप्रत्ययोत्तरपद क्रियालक्षणक्रियाहेतुषु वर्तमानाया अन्वयायोगात् शत्रानशावेव / पचन्तं पचमानं पश्य / पचता पचमानेन कृतम् / पचते पचमानाय देहि / पचतः पचमानाद् भीतः। पचतः पचमानस्य स्वम् / पचति पचमाने गतः / संबोधने-हे पचन् , पचमान / तराद्यन्यतद्धिते-कुर्वतोऽपत्यं कौवतः। पाचतः। वैक्षमाणिः / कुर्वत्पाशः। पचत्पाशः। कुर्वञ्चरः। पचच्चरः / उत्तरपदे-भज्यत इति भक्तिः, कुर्वन्भक्तिरस्य कुर्वद्भक्तिः, कुर्वाणभक्तिः / कुर्वत्मियः, कुर्वाणप्रियः। ब्रुवन्माठरः, ब्रुवाणमाठरः / क्रियायां लक्षणं ज्ञापकं चिन्हम् / तत्र तिष्ठन्तोऽनुशासति गणकाः / शयाना भुञ्जते यवनाः / बहुषु मूत्रयत्सु क चैत्र इति पृष्टः कश्चिदाह-यस्तिष्ठन् मूत्रयति / एवं यो गच्छन् भक्षयति / यः शयानो भुङ्क्ते / योऽधीयान आस्ते / तथा यः पठन् पचति स मैत्रः। एवं यः पचन् पठति / योऽधीयान आस्ते / 949 आसीनः॥४।४।११६॥ आस्तेः परस्यानस्यादेरीकारो निपात्यते / य आसीनोऽधीते / तथा " फलन्ती वर्धते द्राक्षा पुष्प्यन्ती वर्धतेऽब्जिनी / शयाना वर्धते दूर्वा आसीनं वर्धते विसम्" // 1 // क्रियाया हेतुर्जनकस्तत्र अर्जयन् वसति / अधीयानो वसति / एष्यति तु सस्यौ। यास्यन् यास्यति / शयिष्यमाणः शयिष्यते / पक्ष्यन् पक्ष्यति पक्ष्यमाणः पक्ष्यते / तथा भविष्यन् भविष्यति, अध्येष्यमाणः अध्येष्यते ब्राह्मणः इत्यादि / तथा पक्ष्यत्तरः, पक्ष्यतितराम् , पक्ष्यमाणतमः, पक्ष्यतितमाम् इत्यादि / सर्वेष्वेकविषयवाद् भविष्यन्त्यपि / पक्ष्यन् व्रजति, पक्ष्यमाणो बजतीति क्रियायां क्रिया र्थायामेकविषयलाच भविष्यन्त्यादयोऽपि / पक्ष्यामीति व्रजति / पाचको व्रजति / पक्तुं व्रजति / पूर्ववदेव च द्वितीयाधन्तसामानाधिकरण्यादिषु भविष्यन्त्याः