SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ 716 सिद्धहैमबृहत्मक्रिया. [ कृदन्त न / घस्याद्ग्रहणमनेकस्वरार्थम् / इटि हि सत्याकारलोप उपान्त्यलोपश्च भवति दरिद्रातेस्वामा भवितव्यम् / दरीद्रांचकृवान् / पूर्वेणैव सिद्धे नियमार्थं वचनम् / एभ्य एव कसोरादिरिट् भवति नान्येभ्य इति / 944 गमहनविदलविशदृशो वा // 4 / 4 / 84 // एभ्यः परस्य कसोरादिरिड् वा स्यात् / गम्-जग्मिवान् , जगन्वान् / हन्-जनिवान् , जघन्वान् / विद्ल-विविदिवान् , विविद्वान् / विश्-विविशिवान् ,विविश्वान् / दृश्-ददृशिवान् , ददृश्वान् / लकारो लाभार्थस्य विग्रहणार्थः / तेन ज्ञानार्थस्य विविद्वानित्येव भवति / सत्ताविचारणार्थयोस्वात्मनेपदित्वात् कसुर्नास्त्येव / 945 वेयिवदनाश्वदनूचानम् // 5 // 2 // 3 // एते शब्दा भूतेऽर्थे कसुकानान्ताः कर्तरि वा निपात्यन्ते / इणः कसुनिपात्यते / ईयिवान् , समीयिवान् , उपेयिवान् / तथा नपूर्वादश्नातेः कसुरिडभावश्च निपात्यते / अनाश्वान् / तथा वचेबूंगादेशाद्वानुपूर्वात् कानो निपात्यते / अनूचानः / निपातनस्येष्टविषयत्वात् कर्तुरन्यत्र अन्क्तमित्यायेव / ब्रूग एवेच्छन्त्यन्ये / वावचनात् पक्षेऽद्यतन्यादयोऽपि / अगात् / उपागात् / उपैत् / उपेयाय / नाशीत् / नाश्चात् / नाश / अन्ववोचत् / अन्वब्रवीत् / अन्ववक् / अनूवाच / 946 दाश्वत् साह्वत् मीढ्वत् // 4 / 1 / 15 / / एते शब्दाः कसुपत्ययान्ता निपात्यन्ते / दाशृग् दाने इत्यस्य कसावद्वित्वमनिट्वं च निपात्यते / दावान् / दाश्वांसौ / दाशुषी / पहि मर्षणे इत्यस्य परस्मैपदमद्वित्वमुपान्त्यदीर्घत्वमनिटत्वं च निपात्यते / साह्वान् / मिह सेचने इत्यस्याद्वित्वमनिटत्वमुपान्त्यदीर्घत्वं ढत्वं च निपात्यते / मीढ्वान् / 947 शत्रानशावेष्यति तु सस्यौ / / 1 / 2 / 20 // सत्यर्थे वर्तमानाद्धातोः शत्रानशौ प्रत्ययौ स्याताम् एष्यति तु-एष्यन्मात्रे भविष्यन्तीविषयेऽर्थे सस्यौ-स्यप्रत्ययसहितौ शत्रानशौ स्याताम् / स्योऽपि प्रत्ययत्वाद् धातोरेव / यान् / यान्तौ। यान्तः / शयानः / शयानौ / शयानाः / निरस्यन् / 948 अतो म आने // 4 / 4 / 115 // धातोविहिते आने प्रत्यये परेऽकारस्य मोऽन्तः स्यात् / पूर्वान्तकरणं 'मव्यस्याः' इत्या कारनिवृस्यर्थम् / निरस्यमानः।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy