SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ 714 सिद्धहैमबृहत्मक्रिया. [कृदन्त 936 नवा भावारम्भे // 4 / 4 / 73 // आरम्भ आदिक्रिया। आदितो धातो वे आरम्भे च विहितयोः क्तयोरादिरिड् वा न स्यात् / मिन्नम्, मेदितमनेन / प्रमिन्नः, प्रमेदितः / प्रमिन्नवान् , प्रमेदितवान् / आदित इत्येव / विदितमनेन / प्रविदितः / प्रविदितवान् / भावारम्भ इति किम् / मिन्नः। मिन्नवान् / पूर्वेण नित्यं निषेधे प्राप्ते विकल्पः / 937 शकः कर्मणि // 4 / 474 // शकेर्धातोः कर्मणि विहितयोः क्तयोरादिरिड् वा न स्यात् / शक्तः, शकितो वा घटः कर्तुं चैत्रेण / कर्मणि क्तवतुर्नास्तीति नोदाहियते / कर्मणीति किम् / शक्तः कटं कर्तुं चैत्रः / 938 णौ दान्तशान्तपूर्णदस्तस्पष्टछन्नज्ञप्तम् // 4 / 4 / 75 // णौ सति दमादीनां क्तान्तानां दान्तादयो वा निपात्यन्ते / दम्-दान्तः, दमितः। शम्-शान्तः, शमितः / पूरै-पूर्णः, पूरितः / एषु णिलग् निपात्यते / दास-दस्तः, दासितः / स्पश्-स्पष्टः, स्पाशितः / छद्-छन्नः, छादितः। एषु इस्वश्च / ज्ञा-ज्ञप्तः, ज्ञापितः। संज्ञपितः, संज्ञप्तः / अत्र कचिद् इस्खश्च / इडभावः सर्वत्र / 939 श्वसजपवमरुषत्वरसंघुषास्वनामः // 4 // 476 // एभ्यः परयोः क्तयोरादिरिड् वा न स्यात् / श्वस्तः, श्वसितः / प्रश्वस्तः, प्रश्वसितः। आश्वस्तः, आश्वसितः / आश्वस्तवान् , आश्वसितवान् / विश्वस्तः, विश्वसितः। विश्वस्तवान् / विश्वसितवान् / व्याङ्भ्यामेव केचिद् विकल्पमिच्छन्ति / श्वसितः, श्वसितवान् / विश्वसितः,विश्वसितवान् / उच्छ्वसितः। उच्छ्वसितवान् / प्राविभ्यो नित्यमिड्निषेध इत्यन्ये / प्रश्वस्तः, आश्वस्तः, विश्वस्तः। श्वसेः कर्तर्ययं निषेधो भावेऽधिकरणे च नित्यमेवेट् / श्वसितं निश्वसितमिति केचित् / जप-जप्तः, जपितः। जप्तवान्, जपितवान् / वम्-वान्तः, वमितः / वान्तवान् , वमितवान् / जपिवम्योर्नित्यमिड्निषेधः-जप्तः जप्तवान् , वान्तः वान्तवान् इत्यन्ये / रुष्-रुष्टः रुषितः, रुष्टवान् / रुषितवान् / वेट्वाद् रुषेनित्यं प्रतिषेधे प्राप्ते वचनम्। त्वर-तूर्णः, सरितः। तूर्णवान् , सरितवान् / संघुष-संघुष्टं, संघुषितं वाक्यम् / संघुष्टौ संघुषितौ दम्यौ। संघुष्टवान् , संघुपितवान् वाक्यम् / आस्वन-आस्वान्तः, आस्खनितश्चैत्रः। संघुषास्वनिभ्यां परसात् अयमेव विकल्पः / तेनाऽविशब्दनेऽपि-संघुष्टा, संघुषिता रज्जुः। मनस्यपि आस्वान्तम् , आस्वनितं मन इति भवति / अम्-अभ्यान्तः, अभ्यमितः / अभ्यान्तवान् , अभ्यमितवान् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy