________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 713 मन्थादिष्वर्थेषु यथासंख्यमनिटो निपात्यन्ते / शुभेर्मन्थेऽर्थे क्तान्तस्येडभावो निपात्यते / मथ्यत इति मन्थः / कर्मणि घञ् / क्तोऽपि शुभेः कर्मण्येव / तत्सामानाधिकरण्यात् / क्षुब्धः समुद्रः। मथित इति मथ्यमानः संक्षोभं गत इति वार्थः। क्षुब्धा गिरिनदी / मन्थनं वा मन्थः। तस्मिन्नभिधेये क्षुब्धं बल्लवेन / विलोडनं कृतमित्यर्थः / अथवा द्रवद्रव्यसंपृक्ताः सक्तवो रूढ्या मन्थशब्देनोच्यन्ते / तद्रव्याभिधाने क्षुब्धशब्दो मन्थपर्यायो भवति / यदा तु क्षोभं प्रवृत्तिनिमित्तीकृत्य मन्थे वर्तते तदा क्षुब्धो मन्थ इति सामानाधिकरण्यम् / संचलितो मन्थ इत्यर्थः। मन्थेऽभिधेय इति किम् / क्षुभितं समुद्रेण / क्षुभितं मन्थेन / क्षुभितः समुद्रो मन्थेन / अन्यस्तु दध्यादिकं येन मथ्यते स मन्थो मन्थानक इत्याह / " अमृतं नाम यत्सन्तो मन्त्रजिह्वेषु जुइति // शोभैव मन्दरक्षुब्धक्षुभिताम्भोधिवर्णना" // 1 // इति / विपूर्वाद् सौत्राद् रिभेविरिब्ध इति भवति स्वरो ध्वनि चेत् / रेभेर्वा इत्वस्यापि निपातनात् / विरिभितं विरेभितमन्यत् / स्वनेः स्वान्तमिति मन चेत् / मनःपर्यायः स्वान्तशब्दः। विषयेष्वनाकुलं मनःस्वान्तमित्यन्ये / अन्यत्र स्वनितो मृदङ्गः। स्वनितं मनसा घट्टितं स्पृष्टमिति यावत् / ध्वनेः ध्वान्तमिति तमश्चेत् / तमःपर्यायो ध्वान्तशब्दः। अनालोकं गम्भीरं तमो ध्वान्तमित्यन्ये। अन्यत्र ध्वनितं तमसा। ध्वनितो मृदङ्गः। लगेलग्नमिति सक्तं चेत्। लगितमन्यत् / लेच्छेलिष्टमिति अस्पष्टं चेत् / इत्वमपि निपातनात् / म्लेच्छितमन्यत् / फणेः फाण्टमिति अनायाससाध्यं चेत् / यदपितमपिष्टमुदकसंपर्कमात्राद् विभक्तरसमौषधं कषायादि तदेवमुच्यते। अग्निना तप्तं यदीषदुष्णं तत् फाण्टमित्यन्ये / अन्ये त्वविद्यमानायासः पुरुषोऽन्यो वा सामान्येन फाण्टशब्देनाभिधीयते, फाण्टाश्चित्रास्त्रपाणय इत्याहुः। वाहेढिमिति भृशं चेत् / क्रियाविशेषणमेवैतत् स्वभावात् / बाढविक्रमा इति तु विस्पष्टपटुवत्समासः। वाहितमन्यत् / परिपूर्वस्य हेहेर्वा परिवृढ इति प्रभु चेत् / हकारनलोपे ढत्वे च निपातनात् / परिवृढः प्रभुः। परिवढय्य गतः / पारिवृढी कन्या / अन्यत्र परिहितं परिहितम्। केचित्तु लग्नविरिब्धम्लिष्टफाण्टबाढानि धात्वर्थस्य सत्ताद्यर्थविषयभावमात्रे भवन्तीत्याहुः। तेषां लग्नं सक्तेनेत्याद्यपि भवति / यथा *लोम्नि हृष्टमिति / _* यथा लोमविपये हृष्टं निपात्यते प्रयोगश्च लोमभिः हृष्टमिति तथाऽत्रापीत्यर्थः /