SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ 712 सिद्धहैमबृहत्मक्रिया. ' [ कृदन्त 930 वर्वृत्तं ग्रन्थे // 4 / 4 / 66 // वृतेर्ण्यन्तात् क्ते वृत्तमिति ग्रन्थविषये निपात्यते / गुणाभावेदप्रतिषेधौ णिलुक् च निपातनात् / वृत्तो गुण छात्रेण / वृत्तं पारायणं चैत्रेण / वृतेरन्तभूतण्यर्थस्यैतत् सिद्धयति / वर्तेस्तु ग्रन्थविषये वर्तितमिति प्रयोगनिवृत्त्यर्थं वचनम् / ग्रन्थ इति किम् / वर्तितं कुङ्कुमम् / अन्ये तु ग्रन्थेऽपि वर्तितमिति प्रयोगमाद्रियन्त / 931 धृषशसः प्रगल्भे // 4 / 4 / 67 // प्रगल्भो जितसभः / अविनीत इत्यन्ये / धृषिशसिभ्यां परयोः क्तयोरादिः प्रगल्भ एवार्थ इट् न / धृष्टः / विशस्तः। प्रगल्भ इत्यर्थः / प्रगल्भ इति किम् / धर्षितः, विशसितः / धृषेः 'आदितः' इति शसेरप्यूदित्वात् 'वेटोऽपतः' इति प्रतिषेधे सिद्धे नियमार्थ वचनम् / अथ भावारम्भयोनित्यार्थ धृषेरुपादानं कस्मान भवति ? नैवम् / धृषे वारम्भे स्वभावात् प्रगल्भार्थानभिधानात् / 932 कषः कृच्छ्रगहने // 4 / 4 / 68 // कृच्छं दुःखम् तत्कारणं च, गहनं दुरवगाहम् / तयोरर्थयोः कषेः परयोः क्तयोरादिरिड् न स्यात् / कष्टं वर्तते / कष्टोऽग्निः / कष्टानि वनानि / कृच्छ्रगहन इति किम् / कषितं स्वर्णम् / 933 घुषेरविशब्दे // 4 / 4 / 69 // विशब्दनं विशब्दः नानाशब्दनं प्रतिज्ञानं च ततोऽन्यत्रार्थे वर्तमानात् घुषेः परयोः क्तयोरादिरिट् न स्यात् / घुष्टा रज्जु:संबद्धावयवेत्यर्थः / घुष्टवान् / अविशब्दन इति किम् / अवघुषितं वाक्यमाह / नानाशब्दितं प्रतिज्ञातं वा वाक्यं ब्रत इत्यर्थः। अत एव विशब्दनप्रतिषेधात् ज्ञाप्यते घुषेविंशब्दनार्थस्य अनित्य चुरादेणिजिति / तेनायमपि प्रयोग उपपन्नो भवति'महीपालवचः श्रुखा जुघुषुः पुष्यमाणवाः'-स्वाभिप्रायं नानाशब्दैराविष्कृतवन्त इत्यर्थः / 934 बलिस्थूले दृढः // 4 / 4 / 70 // बलिनि स्थूले चार्थे दृहे?हेर्वा तान्तस्य दृढ इति निपात्यते / इडभावः क्ततस्य ढत्वं धातुहनयोपिश्च निपातनात् / दृढो बली स्थूलो वा / परिदृढय्य गतः। पारिदृढी कन्या / बलिस्थूल इति किम् / दृहितम् / दंहितम् / __ 935 क्षुब्धविरिब्धस्वान्तलग्नम्लिष्टफाण्टबाढपरिवृढं मन्थस्वरमनस्तमासक्तास्पष्टानायासभृशप्रभौ // 4 / 4 / 71 // क्षुब्धादयः क्तान्ता
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy