SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 709 915 सेटक्तयोः // 4 / 3 / 84 // सेट्कयोः क्तयोः परतो गेलुक् स्यात् / कारितः / कारितवान् / हारितः / हारितवान् / गणितः / संज्ञपितः पशुः / सेडिति किमर्थम् ? इटि कृते लोपो यथा स्यात् / शकितः शकितवान् / अन्यथेह इट् न स्यात् / 916 प्रादागस्त्त आरम्भेक्ते ॥४॥४७॥आरम्भे आदिकर्मणि वर्तमानस्य प्रशब्दादुत्तरस्य दागः स्थाने क्ते प्रत्यये परे तादेशो वा स्यात् / प्रत्तः। प्रदत्तः। दातुं प्रारब्धवानित्यर्थः। प्रादिति किम् / परीत्तम् / उत्तरेण नित्यं त्तादेशः / दाग इति किम् / दोंच-प्रत्तम् / आरम्भ इति किम् / अन्यत्र नित्यमेव / प्रकर्षेण दीयते स्म प्रत्तम् / क्त इति किम् / प्रत्तवान् / दातुं प्रवृत्त इत्यर्थः / द्विस्तकार आदेशः सर्वादेशार्थः। अकार उच्चारणार्थः। 917 निविस्वन्ववात् // 4 // 48 // एभ्यः परस्य दागः क्ते परे त्तादेशो वा स्यात् / नीत्तम् , निदत्तम् / वीत्तम् , विदत्तम् / मूत्तम् , सुदत्तम् / अनूत्तम् / अनुदत्तम् / अवत्तम् , अवदत्तम् / सुदत्तमेवेत्वन्ये / उत्तरेण नित्यं त्तादेशे प्राप्ते बिभाषेयम् / केचिदत्राप्यारम्भ एव विकल्पमिच्छन्ति / यदाहुः " अवदत्तं विदत्तं च प्रदत्तं चादिकर्मणि // मुदत्तमनुदत्तं च निदत्तमिति चेष्यते " // 1 // तन्मतसंग्रहार्थमारम्भ इत्यनुवर्तनीयम् / 918 स्वरादुपसर्गादस्ति कित्यधः // 4 / 4 / 9 // पूर्वयोगारम्भावति निवृत्तम् / स्वरान्तादुपसर्गात् परस्य धावर्जितस्य दासंज्ञकस्य तकारादौ किति प्रत्यये परे त्तादेशः स्यात् / प्रत्तः, प्रत्तवान् / परीत्तः, परीत्तवान् / धतेरपीत्वं बाधित्वा विशेषविहितखात् त्तखमेव भवति / अवत्तवान् / उपसर्गादिति किम् / दधि दत्तम् / स्वरादिति किम् / निर्दत्तम् / दुर्दत्तम् / निर्दितम् / दुर्दितम् / द इति किम् / प्रदाता व्रीहयः / निदातानि भाजनानि / कितीति किम् / प्रदाता / तीति किम् / प्रदाय / अध इति किम् / धांग्-निहितः। धे-निधीतः / 919 दत् // 4 / 4 / 10 // धावर्जितस्य दासंज्ञकस्य तादौ किति परे दत् इत्यय
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy