________________ 708 सिद्धहैमबृहत्पक्रिया. [ कृदन्त 911 उति शवाभ्यः क्तौ भावारम्भे // 4 / 3 / 26 // उकारे उपान्त्ये सति शवहेभ्योऽदादिभ्यश्च धातुभ्यो भावे आरम्भे चादिकर्मणि विहितौ क्तौतक्तवतू सेटौ वा किद्वत्स्याताम् / कुचितमनेन / कोचितमनेन / प्रकुचितः / प्रकोचितः। प्रकुचितवान् / प्रकोचितवान् / द्युतितमनेन / द्योतितमनेन / प्रद्युतितः। प्रयोतितः। मुदितमनेन, मोदितमनेन / प्रमुदितः, प्रमोदितः। अद्भ्यः-रुदितम् , रोदितमनेन / प्ररुदितः, परोदितः / प्ररुदितवान् , परोदितवान् / उतीति किम् / वितितमनेन / प्रवितितः। शवर्हाट्य इति किम् / गुधितमनेन / प्रगुधितः / भावारम्भ इति किम् / रुचिता कन्या / क्ताविति किम् / प्रद्योतिषीष्ट / सेटावित्येव। रूढमनेन / प्ररूढः / प्ररूढवान् / 912 न डीशीपघृषिक्ष्विदिस्विदिमिदः // 4 / 3 / 27 // भावारम्भ इति न स्मयते / एभ्यः परौ सेटौ तक्तवतू न किद्वत् / डयतेः-डयितः. डयितवान् / शीङ्-शयितः, शयितवान् / पूङ् 913. पूक्लिशिभ्यो न वा // 4 / 4 / 45 // पूङः क्लिशिभ्यां च परेषां तक्तवतुक्खामादिरिड् वा स्यात् / पूतः, पवितः / पूतवान् / पवितवान् / लिष्टः, क्लिशितः / क्लिष्टवान् , क्लिशितवान् / पूङिति डकारः पूगो निवृत्त्यर्थः / तस्य हि 'न डीशीङ्' इत्यादिना कित्त्वप्रतिषेधाभावात् पुवित इत्यनिष्ट रूपमासज्जेत / बहुवचनं क्लिश्यतिक्लिश्नात्योहणार्थम् / पूङः 'उवर्णात् ' इति नित्यं निषेधे प्राप्ते क्लिश्यतेनित्यमिटि प्राप्ते क्लिश्नातेश्चौदित्वात् क्वायां विकल्पे सिद्धेऽपि क्तयोनित्यं निषेधे प्राप्ते विकल्पार्थ वचनम् / डोड्शोपङामनुबन्धनिर्देशो यङ्लुग्निवृत्त्यर्थः। डेडियतः। डेडियतवान् / शेश्यितः, शेश्यितवान् / *पोपुवितः, पोपुवितवान् / सेटावित्येव / डीयतेर्डीनः, डीनवान् / पूतः, पूतवान् / धृष्टः / क्ष्विण्णः / विण्णवान् / खिन्नः, खिन्नवान् / मिनः, मिन्नवान् / 914 मृषः क्षान्तौ ॥४।३।२८॥क्षान्तौ वर्तमानान्मृषः परौ सेटौ तक्तवतू किद्वन्न / मर्षितः / मर्षितवान् / क्षान्ताविति किम् / अपमृषितं वाक्यमाह / साम्यमित्यर्थः / सेटावित्येव / मृषू सहने च / मृष्टः, मृष्टवान् / * पूछिलशीति विकल्पो न, तिवा शवेति न्यायात् /