SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ पकरणम् ] सिद्धहैमबृहत्मक्रिया. 707 अभिशीनः, अभिशीनवान् / अभिश्यानः, अभिश्यानवान् / अवशीनः, अवशीनवान् / अवश्यानः, अवश्यानवान् / द्रवमूर्तिस्पर्शनयोरप्यनेन परत्वाद् विकल्पः। अभिशीनम् , अभिश्यानं घृतम् / अवशीनम् , अवश्यानं हिमम् / अभिशीतः, अवशीतो वायुः / स्पर्शत्वान्न नत्वम् / अभिश्यानः, अवश्यानो वायुः / व्यञ्जनान्तस्थात इति स्पर्शेऽपि नत्वम् / अभ्यवाभ्यामिति किम् / संश्यानः, संश्यानवान् / केचित्तु समा व्यवधानेऽपीच्छन्ति / अभिसंशीनः,अभिसंशीनवान् / अभिसंश्यानः, अभिसंश्यानवान् / अवसंशीनः, अवसंशीनवान् / अवसंश्यानः, अवसंश्यानवान् / तदाभ्यवाभ्यामिति तृतीया व्याख्येया / समस्ताभ्यामपीत्यन्ये / अभ्यवशीन:, अभ्यवश्यानः। विपर्यासे प्रयोगो नास्ति / वाशब्दस्य च व्यवस्थितविभाषार्थादन्योपसर्गान्ताभ्यां न भवति / समभिश्यानः। समभिश्यानवान् / समवश्यानः, समवश्यानवान् / 908 श्रः शृतं हविःक्षीरे // 4 / 1 / 100 // आतेः श्रायतेश्च क्तप्रत्यये हविपि क्षीरे चाभिधेये शृभावो निपात्यते / शृतं हविः। शृतं क्षीरं स्वयमेव / श्रातिश्रायती हि अकर्मककर्मकर्तृविषयस्य पचेरर्थे वर्तते / तयोश्चैतन्निपातनम् / हविक्षीर इति किम् / श्राणा यवागूः। 909 अपेः प्रयोक्त्रैक्ये // 4 / 1 / 101 // श्रायतेः श्रातेर्वा ण्यन्तस्यैकस्मिन् प्रयोक्तरि क्ते परतो हविपि क्षीरे चाभिधेये शुभावो निपात्यते / श्राति श्रायति वा हविः स्वयमेव, तचैत्रेण प्रायुज्यत शृतं हविश्चैत्रेण / ऋतं क्षीरं चैत्रेण / यदा तु द्वितीये प्रयोक्तरि णिगुत्पद्यते तदा न / श्रपितं हविश्चैत्रैण मैत्रेणेति / हविःक्षीर इत्येव / श्रपिता यवागूः / अन्ये तु अपिं चुरादौ पठन्ति, तस्यैव अपेनिपातनम् / प्रयोजकण्यन्तस्य त्वेकस्यापि प्रयोगं नेच्छन्ति / तन्मते कर्मकत हविः श्रातुं चैत्रः प्रयुक्तवान् इति प्रयोजकव्यापारे णिगि अपितं हविश्चैत्रेणेत्येव भवति / अपरे तु सकर्मकावपि श्रातिश्रायती इच्छन्ति। तन्मते तयोरप्यण्यन्तयोनिपातनं भवति / शृतं हविश्चैत्रेण / ण्यन्तयोस्तु न भवत्येव / अपितं हविश्चैत्रेण मैत्रणेति / 910 लङ्गिकम्प्योरुपतापाङ्गविकृत्योः // 4 / 2 / 47. / लङ्गिकम्प्योरुपान्त्यनकारस्य यथासंख्यमुपतापेऽङ्गविकारे चार्थे क्डिति प्रत्यये लुक् स्यात् / विलगितः। विकपितः। उपतापाङ्गविकृत्योरिति किम् / विलङ्गितः / विकम्पितः / लङ्गिकम्प्योरुदित्त्वात् पूर्वेण प्राप्ते वचनम् / द्विवचनं ङितीत्यनेन यथासंख्यनिवृत्त्यर्थम् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy