SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्प्रक्रिया. [कृदन्त न्धुः / पीनमूधः / पीनवदूधः। अन्ये तु प्यायतेः केवलस्याङ्पूर्वस्याङन्तोपसर्गपूर्वस्यैव च प्रयोगमिच्छन्ति नान्यपूर्वस्य / तन्मते प्रप्यानपरिप्यानादयोऽप्रयोगाः। तयोरित्येव / आप्याय्यः। 902 स्फायः स्फी वा // 4 / 1 / 94 // स्फायतेः क्तयोः परतः स्फी इत्ययमादेशो वा स्यात् / स्फीतः, स्फीतवान् / संस्फीतः, संस्फीतवान् / स्फातः, स्फाततवान् / क्तयोरिति किम् / स्फातिः / विकल्पं नेच्छन्त्यन्ये / 903 प्रसमः स्त्यः स्ती॥४॥१९॥ प्रसम् इत्येवं समुदायपूर्वस्य स्त्यायतेः क्तयोः परतः स्ती इत्ययमादेशः स्यात् / प्रसंस्तीतः, प्रसंस्तीतवान् / प्रसम इति किम् / संप्रस्त्यानः / संप्रस्त्यानवान् / स्त्यानः / संस्त्यानः / प्रसमो नेच्छन्त्यन्ये / 904 प्रात्तश्च मो वा // 4 / 1 / 96 // प्रात् केवलात् परस्य स्त्यायतेः क्तयोः परयोः स्ती इत्ययमादेशः स्यात् क्तयोस्तकारस्य च वा मकारः / प्रस्तीमः, प्रस्तीमवान् / प्रस्तीतः, प्रस्तीतवान् / 905 श्यः शीवमूर्तिस्पर्शे नश्चास्पर्शे॥४।१।९७॥ द्रवस्य मूर्तिः-काठिन्यं तस्मिन् स्पर्शे च वर्तमानस्य श्यायतेः क्तयोः परतः शी इत्ययमादेशः स्यात् तत्संनियोगे च क्तयोस्तकारस्यास्पर्शे विषये नकारादेशः / शीनं घृतम् ! शीनवद् घृतम् / शीनं मेदः, शीनवन्मेदः / द्रवावस्थायाः काठिन्यं गतमित्यर्थः / स्पर्शशीतं वर्तते / शीतो वायुः / गुणमात्रे तद्वति चार्थे स्पर्शविषयो भवति / द्रवमूर्तिस्पर्श इति किम् / संश्यानो वृश्चिक; / शीतेन संकुचित इत्यर्थः / व्यञ्जनान्तस्थात इति नत्वम् / 906 प्रतेः // 4 / 1 / 98 // प्रतिपरस्य श्यायतेः क्तयोः परतः शी इत्ययमादेशः स्यात् तत्संनियोगे च क्तयोस्तकारस्य नकारः। प्रतिशीनः, प्रतिशीनवान् / प्रतिपूोऽयं रोगे वर्तत इति पूर्वेणाप्राप्तौ वचनम् / 907 वाऽभ्यवाभ्याम् // 4 / 1 / 99 // अभि अव इत्येताभ्यां परस्य स्त्यायतेः क्तयोः परतः शी इत्ययमादेशो वा स्यात् तत्संनियोगे च क्तयोस्तस्यास्पर्श नः /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy