SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 705 न स्यात् / ति चोपान्त्येत्युत्वम् / आदितां धातूनां भावारम्भे वेट्त्वादन्यत्र वेटोs. पत इत्यनेनैव नित्यमिट्मतिषेधे सिद्धे योगविभागो यदुपाधेर्विभाषा तदुपाधेः प्रतिषेध इति न्यायज्ञापनार्थः, तेन विदक् ज्ञाने-विदित इत्यादि सिद्धम् / प्रफुल्तः। निपातनस्येष्टविषयत्वात् फल निष्पत्तौ--फलितः, फलितवान् / क्षीवादयः शब्दाः केनाचापि च सिद्धयन्ति क्षीवित इत्यादिरूपनिवृत्त्यर्थं तु वचनम् / कथं प्रक्षीवः? प्रगतः क्षीवः इति प्रादिसमासाद् भविष्यति / 898 भित्तं शकलम् // 4 / 2 / 81 // भिदेः परस्य क्तस्य नत्वाभावो निपात्यते, शकलम्-शकलपर्यायश्चेद् भित्तशब्दः / भित्तं शकलमित्यर्थः। शकलमिति किम् / भिन्नम् / शकलमिति पर्यायनिर्देशः किम् / भिदिक्रियाविवक्षायां शकले विषये भिन्नमित्येव यथा स्यात् / भिन्नं शकलम् / भिन्न भित्तम् / / 899 वित्तं धनप्रतीतम् // 4 / 2 / 82 // विन्दतेः परस्य नत्वाभावो निपात्यते धनप्रतीतम्-धनपर्यायः प्रतीतपर्यायश्चेद् वित्तशब्दः। विद्यते लभ्यते इति वित्तं धनम् / विद्यते उपलभ्यतेऽसाविति वित्तः प्रतीतः। धनप्रतीतमिति किम् / विनः। वेत्तेविदितम् / विन्तेविनं वित्तं च / विद्यतेविनम् / वित्तं धने प्रतीते च विन्दतेविनमन्यत्र / ___ 900 क्तयोरनुपसर्गस्य // 4 / 1 / 92 // अनुपसर्गस्य प्यायः क्तयोः क्तक्तवत्वोः प्रत्यययोः परयोः पीत्ययमादेशः स्यात् / पीनं मुखम् / पीनवन्मुखम् / क्तयोरिति किम् / प्यायते / अनुपसर्गस्येति किम् / प्रप्यानो मेघः। 901 आडोऽधूधसोः॥४।१।९३॥ आङ उपसर्गात् परस्य प्यायतेरन्धावूधसि चार्थे क्तयोः परतः पीरादेशः स्यात् / आपीनोऽन्धुः। आपीनमूधः। अन्धुव्रणम् ऊधसो वा पर्यायः। आङ इति किम् / प्रप्यानोऽन्धुः / परिप्यानमूधः / अन्धूधसोरिति किम् / आप्यानश्चन्द्रः / आङ एवेति नियमात् प्राप्यानमूध इत्यत्राडन्तादुपसर्गान्न भवति / अनुपसर्गस्य तु पूर्वेण भवत्येव / पीनोऽन्धुः / पीनवान 1 'आदितो नवा भावारंभे' इत्येक एव क्रियतां, कि योगविभागेनेति / तदुपाधेरिति / अयमर्थः-'नवा भावारंभे' इत्यनेन भावारंभविवक्षायां विभाषा इति यदा कर्मणि कर्तरि वा विवक्ष्यते क्तस्तदा वेटोऽपत इत्यनेनापि निषेधो न स्यात् इत्यस्य पृथगारंभः / / 89
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy