________________ 704 सिद्धहैमबृहत्मक्रिया. [ कृदन्त ऽप्यदितः-ओलजै-लग्नः, लग्नवान् / विजै-उद्विग्नः, उद्विग्नवान् / यतै-यत्तः, यत्तवान् / त्रसै-त्रस्तः, त्रस्तवान् / दीपै-दीप्तः, दीप्तवान् / डीयेतिश्यनिर्देशात् डयतेरिडेव। डयितः, डयितवान् / क्तयोरिति किम् / डयिता / श्वयिता / लज्जिता। उद्विजिता / कृतैनृतैतै इत्येतेषां वेट्वेन क्तयोरिट्प्रतिषेधे सिद्ध ऐदित्त्वं यङ्लुबर्थम् / 893 दुगोरूच // 4 / 277 // दु गु इत्येताभ्यां परस्य क्तयोस्तकारस्य नकारादेशः स्यात् तत्संनियोगे च अनयोरूकारश्चान्तादेशः। दूनः, दूनवान् / गूनः, गूनवान् / 894 बैशुषिपचो मकवम् / / 4 / 2 / 78 // शुषिपचिभ्यः परस्य क्तयोस्तकारस्य यथासंख्यं म क व इत्येते आदेशाः स्युः / क्षामः, क्षामवान् / शुष्कः, शुष्कवान् / पक्कः, पकवान् / 895 निर्वाणमवाते // 4 // 2 // 79 // निर्वाणमिति निपूर्वाद् वाधातोः परस्य क्ततकारस्य नकारो निपात्यते अवाते कर्तरि-वातश्चेन्नितिक्रियायाः कर्ता न। निर्वाणो मुनिः। निर्वाणो दीपः। अवाते इति किम् / निर्वातो वातः / निर्वातं वातेन / भावेऽपि वात एव कर्ता / निर्वाणः प्रदीपो वातेनेत्यत्र तु प्रदीपः कर्ता / वातस्तु हेतुः करणं वेति प्रतिषेधो न / केचित्तु निर्वाणं वातेनेतीच्छन्ति / तेषां वाते कर्तरि प्रत्यये सति प्रतिषेध इति द्रष्टव्यम् / 896 अनुपसर्गाः क्षीवोल्लाघकृशपरिकृशफुल्लोत्फुल्लसंफुल्लाः // // 4 / 280 // अनुपसर्गाः क्तप्रत्ययान्ता एते शब्दा निपात्यन्ते / क्षीबृङ् मदे। उत्पूर्वी लाघृङ् सामर्थ्ये / कृशच तनुत्वे केवलः परिपूर्वश्च। एभ्यः परस्य क्ततकारस्य लोप इडभावश्च निपात्यते / क्षीवः / उल्लाघः / कृशः / परिकुशः / त्रिफला विशरणे इत्यस्मात् केवलादुत्संपूर्वाच्च परस्य क्तस्य लादेशो भावारम्भविवक्षायामिडभावश्च निपात्यते / फुल्लः, उत्फुल्लः, संफुल्लः / केचित्तु क्षीबवान् , उल्लाघवान् , कृशवान् , परिकुशवान् , फुल्लवान् , उत्फुल्लवान् , संफुल्लवान् इति क्तवतावपि रूपमिच्छन्ति, तदर्थ क्तक्तवत्वोस्तशब्दावधि निपातनं द्रष्टव्यम् / एतदर्थमेव बहुवचनम् / अनुपसर्गा इति किम् / प्रक्षीवितः। पोल्लाधितः। प्रकृशितः। संपरिकृशितः। 897 आदितः॥४॥४७॥ आकारानुबन्धाद् धातोः परयोः क्तयोरादिरिट् 71.