SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 701 इह तैर्जग्धम् / इदमेषामभ्यवहृतम् / इदं तैरभ्यवहृतम् / इदं तेषामशितम् / इदं तैरशितम् / आरम्भे तु कर्तर्यपि भवति / इह ते अन्नं पाशिताः / इह ते मधु प्रलीढाः / गत्यर्थादिभ्यः खल्वपि / इदं तेषां यातम् / इदमहेः सप्तम् / इदमेपामासितम् / इदभेषां शयितम् / इदं गवां पीतम् / इदं तेषां भुक्तम् / पक्षे कर्तृकर्मभावेषु पूर्वाण्येवोदाहणानि / .881 ह्लादो हद् क्तयोश्च // 4 / 2 / 67 // हादतेः क्तक्तवखोः क्तौ च परतो हद् आदेशः स्यात् / हन्नः / हन्नवान् / प्रहन्नवान् / अत्र ‘रदादमूर्छमद' इत्यधस्तनसूत्रेण दकारस्य नकारः। क्तयोश्चेति किम् / हादिखा। 882 ऋल्वादेरेषां तो नोऽप्रः // 4 / 2 / 68 // पृवर्जितादृकारान्ताद् धातोवादिभ्यश्च परेषां क्तिक्तक्तवतूनां तकारस्य नकार आदेशः स्यात् / त-तीर्णः, तीर्णवान् / कृ-कीर्णः, कीर्णवान् / गृ-गीर्णः, गीर्णवान् / ल्वादि-लूनः। लूनवान् / धूनः। धूनवान् / लीनः / लीनवान् / अम इति किम् / पूर्तिः / पूर्णिरित्यपि कश्चित् / पूर्तः। पूर्तवान् / ल्वादिषु ये अकारान्ता स्तृट्टप्रभृतयस्तेषामृग्रहणेनैव सिद्धे तत्र पाठः प्वादिकार्यार्थः / क्राधन्तर्गणो ल्वादिः / __883 रदादमूर्च्छमदः क्तयोर्दस्य च // 4 / 2 / 69 // मूर्छिमदिवर्जिताद् रेफदकारान्ताद् धातोः परस्य क्तयोः क्तक्तवखोस्तकारस्य तत्संनियोगे धातुदकारस्य च नकारः स्यात् / पूरै-पूर्णः / पूर्णवान् / गुरै-पूर्णः / गूर्णवान् / मिद्भिन्नः। भिन्नवान् / छिद्-छिन्नः। छिन्नवान् / रदादिति किम् / चितः चितवान् / अमूर्छमद इति किम् / मूर्तः / मूर्तवान् / मत्तः / मत्तवान् / कृतस्थापत्यं कार्तिरित्यत्र * असिद्धं बहिरङ्गमन्तरङ्गे इति न / क्तयोरिति किम् / पूर्तिः। भित्तिः / कथं चूणिः ? चुरेरौणादिको णिः / रदस्येति किम् / चरितम् / उदितम् / इटा व्यवधाने न स्यात् / कृतः कृतवानित्यत्र तु वर्णैकदेशानां वर्णग्रहणेनाग्रहणान्न / रेफात् परेण खरभागेन व्यवधानाद्वा / ऋकारस्य हि मध्येऽर्धमात्रो रेफः, अग्रे पश्चाच तुरीयः स्वरभागः प्रतिज्ञायते / भिन्नवद्भ्यामित्यत्र प्रत्ययदकारस्य परेऽसत्वात् सूत्रे चाश्रुतत्वान्न / कथं चीर्गः, चीर्णवानिति ? चू इति धावन्तरं चरतिसमानार्थ क्तक्तवतुविषयमामनन्ति / 884 सूयत्याद्योदितः॥४।२।७०॥ सूयत्यादिभ्यो नवभ्यो धातुभ्य ओकार
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy