________________ 700 सिद्धहैमबृहत्मक्रिया. [ कृदन्त आश्लिष्टा कान्ता कामुकेन / आश्लिष्टं कामुकेन / शीङ्-अतिशयितो गुरुं शिष्यः। अतिशयितो गुरुः शिष्येण / अतिशयितं शिष्येण / स्था-उपस्थितो गुरुं शिष्यः / उपस्थितो गुरुः शिष्येण / उपस्थितं शिष्येण / आस्-उपासितो गुरुं शिष्यः। उपासितो गुरुः शिष्येण / उपासितं शिष्येण / वस्-अनूषितो गुरुं भवान् / अनूपितोगुरुभवता। अषितं भवता। जन्-अनुजातो माणवको माणविकाम् / अनुजाता माणविका माणवकेन / अनुजातं माणवकेन / विजाता वत्सं गौः। विजातो वत्सो गवा / विजातं गवा। रुह-आरूढो वृक्षं भवान् / आरूढो वृक्षो भवता / आरूढं भवता / जु-अनुजीर्णो वृषली चैत्रः / अनुप्राप्य जीर्ण इत्यर्थः / अनुजीर्णा वृषली चैत्रेण / अनुजीर्ण चैत्रेण / भज्-विभक्ता भ्रातरो रिक्थम् / विभक्तं भ्रातृभिः रिक्थम् / विभक्तं भ्रातृभिः / अकर्मका अपि हि धातव उपसर्गसंबन्धात् सकर्मका भवन्तीति शीङादिग्रहणम् / अन्यथाऽकर्मकत्वादुत्तरेणैव सिद्धम् / श्लिषभजी केवलावपि सकर्मको / 878 भारम्भे // 5 / 1 / 10 // आरम्भे आदिकर्मणि भूतादित्वेन विवक्षिते वर्तमानाद धातोर्यः क्तो विहितः स कर्तरि वा स्यात् / प्रकृतः कटं भवान् / प्रकृतः कटो भवता / प्रभुक्त ओदनं चैत्रः / प्रभुक्त ओदनश्चैत्रेण / प्रभुक्तं चैत्रेण / 879 गत्याकर्मकपिबभुजेः // 5 / 1 / 11 // भूतादौ यः क्तो विहितः स गत्यर्थेभ्योऽकर्मकेभ्यश्च धातुभ्यः पिबभुजिभ्यां च कर्तरि वा स्यात् / गत्यर्थ-गतो मैत्रो ग्रामम् / गतो मैत्रेण ग्रामः / गतं मैत्रेण / यातास्ते ग्रामम् / यातस्तैामः / यातं तैः / अकर्मक-आसितो भवान् / शयितो भवान् / आसितं भवता / शयितं भवता / सकर्मका अपि अविवक्षितकर्माणोऽकर्मकाः / तेन पठितो भवान् / एवं प्रख्यातः। विदितः। अविवक्षितकर्मभ्यो नेच्छन्त्येके / तन्मते कृतो देवदत्तः, हृतो देवदत्तः इत्यादि कर्तरि न / कालभावाध्वभिश्च कर्मभिः सकर्मका अप्यकर्मका उक्ताः। तेन त्रैरूप्यं भवति / सुप्तो भवान् मासम् / मुप्तो भवता मासः / मुप्तं भवता मासम् / एवमोदनपाकं सुप्तो भवान् इत्यादि। पिब-पयः पीता गावः। इदंगोभिः पीतम् / इह गोभिः पीतम्। भुजि-अन्नं भुक्तास्ते। इदं तैर्भुक्तम् / इह तैर्भुक्तम् / 880 अद्यर्थाचाधारे // 5 // 1 // 12 // अद्यर्थात् आहारार्थात् धातोगत्यर्थाकमकपिवभुजेश्च यः क्तः स आधारे वा स्यात् / इदमेषां जग्धम् / इदं तैर्जग्धम् /