________________ 699 प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. संतोषजं सुखम् / कौशल्याया जातः कौशल्याजः / संज्ञाशब्दोऽत्रोपपदम् / अजातेरिति किम् / हस्तिनो जातः / अश्वाज्जातः / 873 क्वचित् // 5 / 1 / 171 // उक्तादन्यत्रापि कचिल्लक्ष्यानुसारेण डः स्यात् / उक्तानान्नोऽन्यतोऽपि / किं जातेन किंजः / केन जातः किंजोऽनितिपितृकः / अलं जातेनालंजः। द्विर्जातो द्विजः। न जातोऽजः / अधिजातोऽधिजः / उपजः। परिजः। प्रजाताः प्रजाः। अभिजः / अकर्मणोऽपि, अनुजः / जातेरपि, ब्राह्मणजः पशुवधः। क्षत्रियजं युद्धम् / स्त्रीजमनृतम् / उक्तादधातोरन्यतोऽपि। ब्रह्मणि जीनवान् ब्रह्मज्यः / उक्तानाम्नो धातोश्चान्यतोऽपि / वरमाहतवान् वराहः। उक्तानाम्नो धातो; कारकाच्चान्यतोऽपि / परिखाता परिखा। आखाता आखा। उपखाता उपरखा / नामधातुकालान्यत्वे-भित्रं द्वयति मित्रहः। अणोऽपवादो डः / धातुकारकान्यत्वे-पटे हन्यते स्म पटहः। धातुकालान्यत्वेवार्चरति वा हंसः / नामकारकान्यत्वे-पुंसानुजातः पुंसानुजः। नामाभावेउक्तधातुकालान्यत्वे-अटति अतति वा अः। कायति कामयते वा कः / भातीति भं नक्षत्रम् / नामाभावे उक्तधातुकालकारकान्यत्वे च खन्यत इति खम् / 874 सुयजाईनिप् / / 5 / 1 / 172 / / सुनोतेयजतेश्च भूतार्थवृत्तेवनिप् स्यात् / सुतवान् सुखा। सुखानौ / इष्टवान् यज्वा / यज्वानौ। कनिप्वन्भ्यां सिद्धे भूते नियमार्थ वचनम् / मन्नादिसूत्रस्थकचिद्ग्रहणस्यैव प्रपञ्चः। डकारो गुणनिषेधार्थः। पकारः पित्कार्यार्थः / इकार उच्चारणार्थः / 875 जूषोऽतः // 5 / 1 / 173 // जीर्यते तार्थवृत्तेरत प्रत्ययः स्यात् / जीर्यति स्म जरन् / जरती / असरूपत्वात् / जीर्णः। जीर्णवान् / ऋकारो दीर्घत्वप्रतिषेधार्थः। 876 क्तक्तवतू // 5 / 1 / 174 // धातो तेऽर्थे वर्तमानात् क्तक्तवतू प्रत्ययौ स्याताम् / क्रियते स्म कृतः। करोति स्म कृतवान् / प्रकृतः कटं देवदत्तः। प्रकृतवान् कटं देवदत्तः। अत्र समुदायस्याभूतत्वेऽपि कटैकदेशे कटत्वोपचारात् तस्य च निर्वृत्तत्वाद् भूत एव धात्वर्थ इत्यादिकर्मण्यनेनैव क्तक्तवतू सिद्धौ।। 877 श्लिषशीङ्स्थासवसजनरहजृभजेः क्तः // 51 // 9 // एभ्यः क्तमत्ययो यो विहितः स कर्तरि वा स्यात् / श्लिष्टः / आश्लिष्टः कान्तां कामुकः।