________________ 698 सिद्धहैमबृहत्मक्रिया. [ कृदन्त 866 अग्नेश्वैः / / 5 / 1 / 164 // अग्नेः कर्मणः पराचिनोते तेऽर्थे वर्तमानात् किप् स्यात् / अग्नि चितवान् अग्निचित् / अत्रापि चतुर्विधो नियमः। अग्नेरेवेति नियमात् कुड्यं चितवान् कुड्यचाय इत्यण / चरेरेवेति नियमादग्निं कृतवान् अग्निकारः। भूत एवेति नियमादग्निं चिनोति चेष्यति वाग्निचायः। किबेवेति नियमादग्निं चितवानित्यण् न / 867 कर्मण्यग्न्यर्थे // 5 / 1 / 166 // कर्मणः पराद् भूतेऽर्थे वर्तमानाचिनोतेः कर्मणि कारकेऽग्न्यर्थेऽभिधेये किप् स्यात् / श्येन इव चीयते स्म श्येनचित् / एवं कङ्कचित / रथचक्रचित् / अग्न्यर्थ इष्टक्चय उच्यते / बहुलाधिकारात् रूढिविषय एवायं द्रष्टव्यः। केचित्तु संज्ञाशब्दखात् कालत्रयेऽप्ययं भवतीत्याहुः। श्येन इव चीयते चितश्चेष्यते वा श्येनचित् / 868 दृशः क्वनिप् // 5 / 1 / 166 // कर्मणः पराद् दृशो भूतेऽर्थे वर्तमानात् कनिप् प्रत्ययः स्यात् / मेरुं दृष्टवान मेरुदृश्वा / विश्वदृश्वा / बहुदृश्वा / परलोकटश्वा / सामान्यसूत्रेण कनिपि सिद्धे भूतकाले प्रत्ययान्तरबाधनाथै वचनम् / 869 सहराजभ्यां कृग्युधेः // 5 / 1 / 167 // सहशब्दात् राजन्शब्दाच कर्मणः परात् करोतेयुधेश्च भूतेऽर्थे वर्तमानात् कनिप् प्रत्ययः स्यात् / सह कृतवान् सहकृता / सहकृत्वानौ / सह युद्धवान् सहयुध्वा / सहयुध्वानौ / राजानं कृतवान् राजकृता / राजानं योधितवान् राजयुध्वा / युधिरन्तर्भूतण्यर्थः सकर्मकः। कर्मण इत्येव / राज्ञा युद्धवान् / प्रत्ययान्तरबाधनार्थोऽयमप्यारंभः / / 870 अनार्जनेर्डः // 5 / 1 / 168 // कर्मणः परादनुपूर्वाजनेर्भूतेऽर्थे वर्तमानाड्डः प्रत्ययः स्यात् / पुमांसमनुजातः पुमनुजः / स्यनुजः / आत्मानुजः। अनुपूर्वो जनिः जननोपसर्जनायां प्राप्तौ वर्तमानः सकर्मकः। 871 सप्तम्याः // 5 / 1 / 169 // सप्तम्यन्ताद् नाम्नः पराद् भूतेऽर्थे जनेर्डः स्यात् / उपसरे जातः उपसरजः / मन्दुरायां मन्दुरे वा जातः मन्दुरजः / / अप्सु जातम् अप्सुजम् , अब्जम् / 872 अजातेः पश्चम्याः // 5 // 1 // 170 // पञ्चम्यन्तादजातिवाचिनो नाम्नः पराद् भूतेऽर्थे जनेर्डः स्यात् / बुद्धेर्जातो बुद्धिजः संस्कारः। संस्कारजा स्मृतिः /