________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. भूतेऽर्थे वर्तमानाद्धन्तेः किप् प्रत्ययः स्यात् / ब्रह्माणं हतवान् ब्रह्महा / भ्रूणहा / किवित्यनेनैव सिद्धे नियमार्थ वचनम् / चतुर्विधश्चात्र नियमः / ब्रह्मादिभ्य एव हन्ते भूते किए नान्यस्मात् / पुरुषं हतवान् पुरुषघातः / मधुहा / अहिहा / गोत्रहा। हिमहा / तमोपहा / असुरहा / आखुहा इत्यादिषु वर्तमानभविष्यतोः कालमात्रे वा 'किप ' इत्यनेनैव किप / तथा ब्रह्मादिभ्यो हन्तेरेव भूते नान्यस्माद धातोः किप / ब्रह्माधीतवान् ब्रह्माध्याय इत्यणेव न तु किप् / ब्रह्मविदादयस्तु भूताविवक्षायाम् / तथा ब्रह्मादिभ्यो हन्तेभूते किबेव नान्यः प्रत्ययः। ब्रह्माणं हतवान् ब्रह्महा इति किवेव भवति नाणणिनौ / ब्रह्मनादयस्तु कालसामान्येन ब्रह्मादिभ्यः' इति टकपत्यये साधवः / कथं वृत्रस्य हन्तुः कुलिशमिति ? केवलादेव हन्तेस्तृच् पश्चाद् वृत्रेण संवन्धः / ' मध्येऽपवादाः पूर्वान् विधीन् वाधन्ते नोत्तरान् ' इति किपाऽणादिरेव बाध्यते न तक्तवतू / तथा ब्रह्मादिभ्यो हन्तेर्भूत एव काले किष् नान्यस्मिन् / ब्रह्माणं हन्ति हनिष्यति वा ब्रह्मघात इत्यणेव / तदेतत्सर्व बहुलाधिकाराल्लभ्यते / 864 कृगः सुपुण्यपापकर्ममन्त्रपदात् // 5 // 1 / 162 // सुशब्दात् पुण्यादिभ्यश्च कर्मभ्यः परात करोते तेऽर्थे वर्तमानात् किप स्यात् / सुष्टु कृतवान् सुकृत् / पुण्यं कृतवान् पुण्यकृत् / पापकृत् / कर्मकृत् / मन्त्रकृत् / पदकृत् / इदमपि नियमार्थ वचनम् / त्रिविधश्चात्र नियमः / एभ्यः कृग एव भूते किप् नान्यस्माद् धातोः / मन्त्रमधीतवान् मन्त्राध्याय इत्यपक्ता एव भवन्ति न किप् / मन्त्रवित् , पापनुत् इत्यादौ तु भूताविवक्षायां किम् / तथा एभ्यः कृगो भूत एव किए / इह न / कर्म करोति करिष्यति वा कर्मकारः, मन्त्रकारः / पदकारः / तथा एभ्यः परात् कृगो भूते किप् एव नान्यः प्रत्ययः / तेन कर्म कृतवान् कर्मकार इति न / एभ्य एव भूते कृगः किविति धातुनियमो नेष्यते / तेन शास्त्रकृत् तीर्थकृत् वृत्तिकृत् सूत्रकृत् भाष्यकृदित्यादयः सिद्धाः।। 866 सोमात्सुगः / / 5 / 1 / 163 // कर्मणः परात् सुनोते तेऽर्थे वर्तमानात् किए स्यात् / सोमं सुतवान् सोमसुत् / अयमपि नियमार्थो योगः। चतुर्विधश्चात्रापि नियमः / सोमादेवेति नियमात् सुरां सुतवान् सुरासाव इत्यण / सुरामुदिति भूताविवक्षायाम् / सुग एवेति नियमात् सोमं पीतवान् सोमपा इति विच / भूत एवेति नियमात् सोमं सुनोति सोष्यति वा सोमसाब इत्यण् / किबेवेति नियमात् सोमं सुतवान् इत्यण न /