________________ सिद्धहैमबृहत्मक्रिया. [ कृदन्त 857 ब्रह्मणो वदः // 5 / 1 / 156 // ब्रह्मन्शब्दात् पराद् वदेणिन् प्रत्ययः स्यात् / ब्रह्म ब्रह्माणं वा वदति ब्रह्मवादी / अयमप्यशीलार्थ आरम्भो जात्यर्थोsसरूपविधिनिवृत्त्यर्थश्च / 759 व्रताभीक्ष्ण्ये // 5 / 1 / 157 // व्रतं शास्त्रितो नियमः। आभीक्ष्ण्यं पौनःपुन्यम् / तयोर्गम्यमानयोर्नाम्नः पराद् धातोणिन् प्रत्ययः स्यात् / व्रते-अश्राद्धं भुङ्क्ते अश्राद्धभोजी। अलवणभोजी / स्थण्डिलशायी / स्थण्डिलवर्ती। वृक्षमूल. वासी / पार्श्वशायी। तदन्यवर्जनमिह व्रतं गम्यते / आभीक्ष्ण्ये-पुनः पुनः क्षीरं पिबन्ति क्षीरपायिण उशीनराः। तक्रपायिणः सौराष्ट्राः / कषायपायिणो गान्धाराः। सौवीरपायिणो बाहीकाः / व्रताभीक्ष्ण्य इति किम् / स्थण्डिले शेते स्थण्डिलशयः। बहुलाधिकारादाभीक्ष्ण्येऽपीह न / कुल्माषखादाश्चोलाः। अशीलार्थ जात्यर्थं च वचनम् / 860 करणाघजो भूते // 1 / 1 / 158 // करणवाचिनो नाम्नः पराद् भूतेऽर्थे वर्तमानाद् यजेणिन् प्रत्ययः स्यात् अग्निष्टोमेनेष्टवान् अग्निष्टोमयाजी / भवति हि सामान्यविशेषयोर्भेदविवक्षायां सामान्ययजौ विशेषयजिरग्निष्टोमः करणम् / भूत इति किम् / अग्निष्टोमेन यजते / करणादिति किम् / गुरूनिष्टवान् / 861 निन्द्ये व्याप्यादिन् विक्रियः / / 8 / 1 / 159 // व्याप्यान्नाम्नः पराव विपूर्वात् क्रीणातेभूतेऽर्थे वर्तमानात् कुत्सिते कर्तरीन् प्रत्ययः स्यात् / सोमं विक्रीतवान् सोमविक्रयी, घृतविक्रयी, तैलविक्रयी ब्राह्मणः / निन्ध इति किम् / धान्यविक्रायः, घृतविक्रायः, तैलविक्रायः वणिक् / व्याप्यादिति किम् / ग्रामे विक्रीतवान् / भावेऽलन्तस्य मखींयेनेना सिद्धयति कुत्सायाम् वाधनार्थ वचनम् / 862 हनो णिन् // 5 / 1 / 160 // व्याप्यान्नाम्नः पराद् भूतेऽर्थे वर्तमानात् हन्तेनिन्छे कर्तरि णिन् प्रत्ययः स्यात् / पितृव्यं हतवान् पितृव्यघाती। मातुलघाती। असरूपत्वादणपि / पितृव्यघातः। मातुलघातः / केचित्त्वसरूपविधि नेच्छन्ति / निन्द्य इत्येव / शत्रु हतवान् शत्रुघातः। चौरघातः। व्याप्यादित्येव / दण्डेन हतवान् / घन्तान्मत्वर्थीयेनेना सिद्धे भूतकुत्साभ्यामन्यत्र शत्रुघातीत्यादौ मत्वर्थीयनिवृत्त्यर्थ वचनम् / अन्यत्रापीच्छत्यन्यः। एवं पूर्वसूत्रेऽपि / 863 ब्रह्मभ्रूणवृत्रात् किम् // 5 / 1 / 161 // ब्रह्मादिभ्यः कर्मभ्यः पराद्