SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ पकरणम् ] सिद्धहैमबृहत्मक्रिया. 695 अथवा कृत्तविकृत्तशब्दस्य पकमांसार्थस्य पृषोदरादित्वात् क्रव्यादेशः / सिद्धौ प्रत्ययौ विषयनियमार्थं वचनम् / 854 त्यदाद्यन्यसमानादुपमानाद् व्याप्ये दृशष्टक्सको च // 5 // 1 / 152 // त्यदादेरन्यशब्दात् समानशब्दाचोपमानभूताद् व्याप्ये कर्मणि वर्तमानात् पराद् दृशेाप्य एव टक्सको किप् च प्रत्ययाः स्युः / त्यदादि-स्य इव दृश्यते त्यादृशः, त्यादृशी। त्यादृक्षः। त्यादृक्षा। त्यादृक् / एवं तादृशः। तादृशी। तादृक्षः। तादृक्षा। तादृक् / अन्य-अन्यादृशः / अन्यादृशी / अन्यादृक्षः। अन्यादृक्षा / अन्यादृक् / समान-सदृशः। सदृशी / सदृक्षः। सदृक्षा। सदृक् / केचित्सकमपि टितं मन्यन्ते / तन्मते त्यादृक्षीत्यायेव / एभ्य इति किम् / वृक्ष इव दृश्यते / उपमानादिति किम् / स दृश्यते / व्याप्ये वर्तमानादिति किम् / तेनेव दृश्यते / तस्मिन्निव दृश्यते / अस्मिन्निव दृश्यते / व्याप्य एवेति किम् / तमिव पश्यन्तीत्यत्र कर्तरि न / वचनभेदान्न यथासंख्यम् / 855 कर्तुगिन् // 5 / 1 / 153 // कर्तृवाचिन उपमानभूतान्नान्नः पराद् धातोणिन् प्रत्यय: स्यात् / कृत्त्वात् कर्तरि / उष्ट्र इव क्रोशति उष्टक्रोशी / ध्वाङ्क्षरावी / खरनादी / सिंहनीं। कर्तुरिति किम् / शालीनिव क्रोद्रवान् भुङ्क्ते / उष्ट्रमिवाश्चमारोहति। उपमानभूतादित्येव / उष्ट्रः क्रोशति / अशीलार्थो जात्यर्थश्च आरम्भः। 856 अजातेः शीले // 5 / 1 / 154 // अजातिवाचिनो नाम्नः पराद् धातोः शीलेऽर्थे वर्तमानात् णिन् प्रत्ययः स्यात् / उष्णं भुङ्क्ते इत्येवंशीलः उष्णभोजी। शीतभोजी / अजातेरिति प्रसज्यप्रतिषेधादसत्ववाचिनोऽप्युपसर्गाद् भवति / उदासरतीत्येवंशील उदासारी। प्रत्यासारी / प्रस्थायी। प्रतिबोधी / प्रयायी। प्रतियायी / उदाङ्मत्याभ्यां परं सति वर्जयित्वा अन्यस्माद् धातोरुपसर्गपरान्नेच्छन्त्यन्ये / अजातेरिति किम् / ब्राह्मणानामन्त्रयिता / शालीन् भोक्ता। प्रभोक्ता उपभोक्ता संभोक्तेति बहुलाधिकारान्न / शील इति किम् / उष्णभोज आतुरः। 857 साधौ // 5 / 1 / 155 // नाम्नः परात् साधावर्थे वर्तमानाद् धातोणिन् प्रत्ययः स्यात् / अशीलार्थ आरम्भः। साधु करोति साधुकारी / साधुदायी। चारुनी / सुष्ठुगामी / वहुलाधिकारात् साधु वादयति वादको वीणाम् साधु गायतीत्यादौ न /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy