SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ 694 सिद्धहैमबृहत्पक्रिया. [ कृदन्त पवित् / निर्विविदे विदां वरः / विदेरविशेषेण ग्रहणम् / लाभार्थान्नेच्छन्त्येके / काष्ठं भिनत्ति काष्ठभित् / बलभित् / गोत्रभित् / रज्जु छिनत्ति रज्जुच्छित् / तमश्छिद्। भवच्छित् / प्रच्छित् / शत्रु जयति शत्रुजित् / प्रसेनजित् / कर्मजित् / प्रजित् / अभिजित् / सेनां नयति सेनानीः। अग्रणीः / ग्रामणीः। प्रणीः / नीः। विश्वस्मिन् राजते विश्वाराट् / विश्वस्य वसुराटोरिति दीर्घः। राजराट् / सम्राट् / विराट् / राट / अञ्चेः-दध्यञ्चति दध्यङ् / देवमश्चति देवद्यङ / विश्वद्यङ् / तिर्यङ् / प्राङ। प्रत्यङ्। केवलान्न / तथा ऋतौ ऋतुम् ऋतवे ऋतुपयोजनो वा यजते ऋविग याजकः। 'ऋत्विज्' इत्यादिना गत्वम् / धृष्णोति दधृक् प्रगल्भः। दधृगिति निर्देशाद् द्वित्वम् / उत्स्निह्यति उन्नयति वा उष्णिग छन्दः / उष्णिगिति निर्देशाद दलोपषत्वादि / कथं दिश्यते दिक् मृज्यते स्रक् ? क्रुत्संपदादित्वात् किम् / ककारः कित्कार्यार्थः। पकारः पित्कार्यार्थः / इकार उच्चारणार्थः / 850 छदेरिस्मन्त्रदक्कौ // 4 / 2 / 33 // छदेरिस्मन्किप्परे णौ इस्वः स्यात् / इसि-छदिः / मनि-छद्म / त्रटि-छत्रम् / छत्री। किपि-उपच्छत् , धामच्छत् / त्रडिति किम् / त्रे मा भूत् छात्रः। 851 स्पृशोऽनुदकात् // 5 / 1 / 149 // उदकवर्जितानाम्नः परात् स्पृशेः किए प्रत्ययः स्यात् / घृतं स्पृशति घृतस्पृक् / एवं मर्मस्पृक् / व्योमस्पृक् / मन्त्रेण स्पृशति मन्त्रस्पृक् / कर्मोपपदादेवेच्छन्त्यन्ये / अनुदकादिति किम् / उदकस्पर्शः / उदकेन स्पर्टी / अनुदक इति पर्युदासाश्रयणादुदकसदृशमनुपसर्ग नाम गृह्यते / तेनेह न / उपस्पृशति / 852 अदोऽनन्नात् // 1 / 1 / 150 // अन्नवर्जितानाम्नः पराददेः किए प्रत्ययः स्यात् / आममत्ति आमात् / सस्यात् / अनन्नादिति किम् / अन्नादः / बहुलाधिकारात् कणादः / पिप्पलादः / किप सिद्धोऽन्नप्रतिषेधार्थ वचनम् / 853 व्याक्रव्यादावामपक्कादौ // 5 / 1 / 151 // क्रव्यात् क्रव्याद इत्येतौ शब्दौ यथासंख्यं किवणन्तौ साधू स्याताम् , यद्यामात्पक्काचाभिधेयौ। क्रव्यमत्ति क्रव्यात् आममांसभक्षः। क्रव्यादः पकमांसभक्षः। क्रव्याद इति नेच्छन्त्यन्ये / आममांसवाच्यपि क्रव्यशब्दः क्रव्याद इति निपातनसामर्थ्यात् वृत्तौ पकमांसे वर्तते /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy