________________ सिद्धहैमबृहत्लक्रिया. [व्यंजनान्तपुंल्लिङ्ग अमुमुईचः / अदोमुमीति संधिप्रतिषेधः / अमुद्रीचः। अदद्रीचः। अदमुयग्भ्यामित्यादि / एवं सर्वघङ् / विषू अवतीति विष:-विश्वमञ्चति विष्वगश्चतीति वा विष्वद्यङ् / देवान् अश्वतीति देवद्यङ् / उत्पूर्वादश्चतेः किपि उदङ् / उदश्चौ / शसादौ स्वरे / 295 उदच उदीच् / / 2 / 1 / 103 // उदचिति उत्पूर्वस्याश्चतेः कृतनलोपस्य निर्देशः / उदचो नाम्नोऽणिक्यघुटि यकारादौ स्वरादौ च प्रत्यये परे उदीच इत्ययमादेशः स्यात् / उदीचः / उदीचा / उदग्भ्यामित्यादि / सह अञ्चतीति विग्रहे किपि कृते / . 296 सहसमा सध्रिसमि // 3 / 2 / 123 // सह सम् इत्येतयोः स्थानेऽश्चतो किबन्ते उत्तरपदे यथासंख्यं सधि समि इत्येतावादेशौ स्याताम् / सध्यङ् / सध्यश्चौ / सध्यश्चः / सध्यश्चम् / सध्यश्चौ / सधीचः। सधीचा / सध्यग्भ्यामित्यादि / एवं सममश्चतीति सम्यङ् / सम्यश्चौ / समीचः / सम्यग्भ्यामित्यादि / 297 तिरसस्तिते // 3 // 2 // 124 // तिरस्शद्रस्याति अकारादावश्चतौ किबन्ते उत्तरपदे परे तिरि इत्ययमादेशः स्यात् / तिरस्तिरको वा अञ्चतीति तिर्यङ् / तिर्यश्चौ / तिर्यश्चः / तिर्यश्चम् / तिर्यश्चौ / अतीति किम् / तिरश्चः / तिरश्वा / तिर्यग्भ्यामित्यादि / किप्यर्चायां निषेधान्नलोपाभावे अच इति नोऽन्तो न भवति / पाङ् / पाश्चौ / पाश्चः / पाश्चम् / पाश्चौ / शसादौ स्वरे च' अच्च मागि' त्यत्र लुप्तनकारस्याश्चतेग्रहणान्न चादेशदीर्घत्वे / पाश्चः / प्राचा / प्राङ्भ्यामित्यादि / एवमर्चार्थे प्रत्यङादयः / क्रुश्च च कौटिल्याल्पीभावयोः / अस्य किपि नलोपाभावस्य निपातनात् क्रुङ् / क्रुश्चौ / क्रुश्चः / क्रुश्चा / क्रुङ्भ्यामित्यादि / निरुपपदाघुजेः किपि / ____ 298 युज्रोऽसमासे // 1 / 4 / 71 // युनूंपी योगे इत्यस्यासमासे धुडन्तस्य धुटः प्राग घुटि परे नोऽन्तः स्यात् / युङ् / युञ्जा। युञ्जः। युञ्जम् / युञ्जा। युजः / युजा / युग्भ्याम् / ईषदपरिसमाप्तो युङ बहुयुङ् / बहुयुञ्जौ / बहुयुञ्जः / असमास इति किम् / अश्वयुक् / अश्वयुजौ। अश्वयुजः। ऋदिनिर्देशः किम् / युजिन् समाधावित्यस्य मा भूत् / युजमापन्ना मुनयः / समाधि प्राप्ता इत्यर्थः। घुटीत्येव / युजः / खञ्जतीति खन् / खञ्जौ / खञ्जः / खञ्जा / खन्भ्यामित्यादि। यजसृजेति षत्वे, धुटस्तृतीय इति डत्वे च विरामे वा / देवेट-ड्। देवेजो। देवेजः। देवेजा। देवेटमु-त्सु। तीर्थस्ट-ह। तीर्थसृजौ / तीर्थमुजः। तीर्थसृजा।