________________ 692 सिद्धहैमबृहत्पक्रिया. [ कृदन्त 840 स्थापास्नात्रः कः // 5 / 1 / 142 // नाम्नः परेभ्य एभ्यः कः प्रत्ययः स्यात् / समे तिष्ठति समस्थः / विषमस्थः / कूटस्थः / कपित्थः / दधित्थः। महित्थः / अश्वत्थः / कुलत्यः। द्विपः / पादपः / कच्छपः। अनेकपः / कटाहपः। नदीष्णः। आतपत्रम् / घर्मत्रम् / परसादयं 'शमो नाम्न्यः ' इत्यप्रत्ययं बाधते / शंस्थो नाम कश्चित् / संस्था इत्यसरूपत्वात् किम् / 841 शोकापनुदतुन्दपरिमृजस्तम्बरमकर्णेजपं प्रियालसहस्तिसूचके // 5 / 1 / 143 // शोकापनुदादयः शब्दा यथासंख्यं पियादिष्वर्थेषु कप्रत्ययान्ता निपात्यन्ते / शोकमपनुदति शोकापनुदः प्रियः। पुत्रादिरानन्दकर एवमुच्यते। तुन्दं परिमाष्टिं तुन्दपरिमृजोऽलसः। स्तम्बे रमते स्तम्बेरमो हस्ती / कर्णे जपति कर्णेजपः सूचकः / एष्विति किम् / शोकापनोदो धर्माचार्यः / तुन्दपरिमार्ज आतुरः। स्तम्बे रन्ता पक्षी / कर्णे जपिता मन्त्री। 842 मूलविभुजादयः / / 5 / 1 / 144 // मूलविभुजादयः शब्दाः कात्ययान्ता नियतार्थधातूपपदा यथाशिष्टप्रयोगं निपात्यन्ते। मूलानि विभुजति मूलविभुजो रथः। उर्ध्या रोहति उर्वीरुहो वृक्षः। को मोदते कुमुदं कैरवम् / महीं धरति महोध्रः शैलः। उपसि बुध्यते उषर्बुधोऽग्निः। अपो बिभर्ति अब्भ्रं मेघः। सरसि रोहति सरसिरुहं पद्मम् / नखानि मुश्चन्ति नखमुचानि धनूंषि / काकेभ्यो गृहनीयाः काकगृहनीयास्तिलाः। धर्माय प्रददाति धर्मपदः। एवं कामप्रदः। शब्दपदः। शास्त्रेण प्रजा. नाति शास्त्रपज्ञः / एवमागमप्रज्ञः। 843 दुहेर्दुघः // 5 / 1 / 145 // नाम्नः पराहुहेर्डेघः प्रत्ययः स्यात् / कामान् दुग्धे पूरयति कामदुधा / धर्माय दुग्धे धर्मदुघा / असरूपखात् किम् / कामधुक् / डकारोऽन्त्यस्वरादिलोपार्थः / 844 भजो विण // 5 // 11146 // नाम्नः पराद् भजेविण प्रत्ययः स्यात् / अर्ध भजते अर्धभाक् / पादभाक्। दूरभाक् / प्रभाक् ! विभाक् / इकार उच्चारणार्थः। वकारो विकिपोः सारूप्यार्थस्तेनात्र विषये किब् न / 845 मन्वनक्कनिविच कचित् // 5 // 1 / 147 // नाम्नः परात् धातोरेते प्रत्ययाः कचिल्लक्ष्यानुसारेण स्युः। मन्-इन्द्रं शृणाति इन्द्रशर्मा। सुशर्मा / सुवर्मा /