________________ प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. 833 पार्धादिभ्यः शीङः / / 5 / 1 / 136 // पार्थादिभ्यो नामभ्यः परात् शीङः अः प्रत्ययः स्यात् / पार्श्वभ्यां शेते पार्श्वशयः / एवं पृष्ठशयः। उदरशयः / दिग्धेन सह शेते दिग्धसहशयः / दिग्धसहात् तृतीयासमासात् शीङोऽकारः। पश्चादुपपदसमासः। बहुवचनाद् यथादर्शनमन्येभ्योऽपि / अनाधारार्थ आरम्भः। 834 ऊर्ध्वादिभ्यः कर्तुः // 5 / 1 / 136 // ऊर्ध्वादिभ्यो नामभ्यः कर्तृवा. चिभ्यः परात् शीङः अः प्रत्ययः स्यात् / ऊर्ध्वः शेते ऊर्ध्वशयः / एवमुत्तानशयः। बहुवचनं प्रयोगानुसरणार्थम् / 835 आधारात् // 5 / 11137 // आधारवाचिनो नान्नः परात् शीङ: अप्रत्ययः स्यात् / खे शेते खशयः / गतशयः / गुहाशयः / हृच्छयः / बिलेशयः। मनसिशयः / कुशेशयः इति सप्तम्या अलुप् / गिरिश इति संज्ञायां लोमादित्वाच्छः / क्रियार्थत्वे तु गिरिशय इति भवितव्यम् / 836 चरेष्टः // 5 / 1138 // आधारवाचिनो नाम्नः पराञ्चरेष्टः प्रत्ययः स्यात् / कुरुषु चरति कुरुचरः / मद्रचरः / वनेचरः / निशाचरः / टकारो न्यर्थः। कुरुचरी / मद्रचरी / आधारादित्येव / कुरूँश्चरति / पश्चालाश्चरति / 837 भिक्षासेनादायादात् // 5 / 1 / 139 / / अनाधारार्थ आरम्भः। एभ्यः पराचरेष्टः स्यात् / भिक्षां चरति भिक्षाचरः / भिक्षाचरी / सेनां चरति परीक्षते सेनाचरः तापसव्यञ्जनः / सेनया वा चरति सेनाचरः / आदाय गृहीखा चरति आदायचरः / आदानं कृता चरतीत्यर्थः। किमादायेत्यविवक्षेव / एभ्य इति किम् / कुरूँश्चरति / 838 पुरोऽग्रतोऽग्रे सर्तेः // 1 / 1 / 140 // एभ्यो नामभ्यः परात् सर्तेष्टः स्यात् / पुरः सरति पुरःसरः, पुरःसरी / अग्रतः सरति अग्रतःसरः। आधादिखात् तस् / अग्रे सरति अग्रेसरः। सप्तम्यलुप् / एकारान्तमव्यथं वा / सूत्रनिपातना. द्वैकारः। तत्राग्रं सरति अग्रेण वा सरति अग्रेसरः इत्यपि / 839 पूर्वात्कर्तुः // 5 // 1 / 141 // पूर्वशब्दात् कर्तृवाचिनः परात् सरतेष्टः स्यात् / पूर्वः सरति पूर्वसरः / पूर्वो भूत्वा सरतीत्यर्थः / कस्मात् पूर्व इति अविवक्षैव / पूर्वसरी / कर्तुरिति किम् / पूर्व देश सरति पूर्वसारः /