________________ 690 सिद्धहैमबृहत्मक्रिया. [ कृदन्त पराद् गमेः खड् ड इत्येतो खश्च प्रत्ययाः स्युः, विहायस्शब्दस्य च विहादेशः / खड्-तुरो गच्छति तुरंगः / भुजेन भुज इव वा गच्छति भुजङ्गः / प्रवेण प्लवेन गच्छति प्रवङ्गः, प्लवङ्गः / पतो गच्छति पतङ्गः। विहायसा गच्छति विहङ्गः / ड-तुरगः / भुजगः / प्लवगः / विहगः / अत्यन्तगः / सर्वगः। सर्वत्रगः। अनन्तगः / परदारगः। ग्रामगः / गुरुतल्पगः / प्रतीपगः / पुरोगः / पीठगः। तीरगः। अग्रादिभ्यस्तदन्तेभ्योऽपि / अग्रगः। सेनाग्रगः / आदिगः / पङ्क्त्यादिगः / मध्यगः। गृहमध्यगः। अन्तगः। शाखान्तगः / अध्वगः। नगराध्वगः / दूरगः। अदूरगः / पारगः। वेदपारगः / अगारगः / स्यगारगः / इत्यादि / अथ संज्ञायाम्-खे गच्छति खगः पक्षी / न गच्छत्यगो वृक्षः पर्वतश्च / एवं नगः। उरसा गच्छत्युरगः। पृषोदरादिबात सलोपः। पतो गच्छति पतगः पक्षी। पद्भ्यां न गच्छति पन्नं वा गच्छति पन्नगः सर्पः। आपमब्धिं गच्छति आपगा नदी। आशु गच्छत्याशुगः शरः / निम्नगा। समुद्रगा। सततगा इत्यादि / अगो वृषलः शीतेनेत्यसंज्ञायामपि / अथ खःसुतं सुतेन वा गच्छति सुतंगमो नाम हस्ती / यस्य सौतंगमिः पुत्रः / मितं गच्छति मितंगमोऽश्वः / अमितंगमा हस्तिनी / जनंगमश्चण्डालः / पूर्वगमाः पन्थानः / हृदयंगमा वाचः / तुरंगमोऽश्वः / भुजंगमः सर्पः। प्रवंगमः कपिः। प्लवंगमो भेकः। विहंगमः, नभसंगमश्च पक्षी / नभसशब्दोऽकारान्तोऽप्यस्ति / उरंगम इत्यपि कश्चित् / बहुलाधिकाराद् यथाप्रयोगदर्शनं व्यवस्था। डकारोऽन्त्यस्वरादिलोपार्थः। __830 सुगदुर्गमाधारे // 1 / 1 / 132 // सुदुभ्यो गमेराधारे डः प्रत्ययो निपात्यते / सुखेन दुःखेन च गम्यतेऽस्मिन्निति सुगः, दुर्गः पन्थाः / आधार इति किम् / सुगन्ता। दुर्गन्ता। असरूपवादनडपि / सुगमनः / दुर्गमनः / सुगमो दुर्गम इति कर्मणि / 831 निर्गो देशे // 5 / 1 / 133 // निस्पूर्वाद गमेराधारे देशे डो निपात्यते। निर्गम्यतेऽस्मिन् देशे इति निर्गो देशः / देश इति किम् / निर्गमनः। 832 शमो नाम्न्यः॥१।१।१३४॥ शमो नाम्नः पराद्धातोर्नानि संज्ञायामः प्रत्ययः स्यात् / शमित्यव्ययं सुखे वर्तते। तत्र भवति शंभवोऽर्हन् / शं करोति शंकरः। शंगरः। शंवरः। शंवदः / स्वः पश्येत्यादिष्वव्ययानां कर्मखदर्शनाच्छमि कर्मणि हेखादिष्वपि परखात् कगष्टो बाध्यते / शंकरा नाम परित्राजिका / शंकरा नाम शकुनिका तच्छीला च / नाम्नीति किम् / शंकरी जिनदीक्षा /