SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 689 825 इरंमदः // 5 / 1 / 127 // कर्मण इति निवृत्तम् / इरापूर्वान्माद्यतेः खस् श्याभावश्च निपात्यते / इर। मुरा तया मायति इति इरंमदः / 826 नग्नपलितप्रियान्धस्थूलसुभगायतदन्ताच्चव्यर्थेऽच्वेर्भुवःखि ष्णुखुकञ्॥५।१।१२८॥ नग्नादिभ्यः केवलेभ्यस्तदन्तेभ्यश्चाच्च्यन्तेभ्यश्व्यर्थे वर्तमानेभ्यः पराद् भवतेः विष्णुखुको प्रत्ययौ स्याताम् / अनग्नो नग्नो भवति नग्नंभविष्णुः। ननंभावुकः पलितंभविष्णुः। पलितंभावुकः। प्रियंभविष्णुः। प्रियंभावुकः। स्थूलंभविष्णुः / स्थूलंभावुकः / सुभगंभविष्णुः / मुभगंभावुकः। आढ्यंभविष्णुः। आढयंभावुकः / तदन्तेभ्यः-अननग्नोऽनग्नो भवति अनग्नंभविष्णुः। अनग्नंभावुकः। असुनग्नः सुननो भवति सुनग्नभविष्णुः। सुनग्नंभावुकः। व्यर्थ इति किम् / नग्नो भविता / अच्वेरिति किम् / आढ्यीभविता / तृच् / उपपदविधिषु तदन्तविधिरनाश्रित इति तदन्तग्रहणम् / 827 कृगः खनट करणे // 5 / 1 / 129 // नग्नादिभ्योऽव्यन्तेभ्यश्व्यर्थवृत्तिभ्यः परात् करोतेः करणे खनट् प्रत्यय: स्यात् / करण इति कर्तरीत्यस्यापवादः / अननो नग्नः क्रियतेऽनेन नग्नकरणं द्यूतम् / एवं पलितंकरणं तैलम् / प्रियंकरणं शीलम् / अन्धकरणः शोकः। स्थूलंकरणं दधि। सुभगंकरणं रूपम् / आढ्यंकरणं वित्तम् / तदन्तेभ्योऽपि-अनननोऽननः क्रियतेऽनेनाननंकरणः पटः। सुनग्नकरणः / अपलितंकरणो रसः। व्यर्थ इत्येव / नग्नं करोति द्यूतेन / नात्र प्रकृतिविकारभावो विवक्ष्यते। अच्वेरित्येव / नग्नीकुर्वन्त्यनेन ! अत्र खनटप्रतिषेधसामर्थ्यादनडपि न। नहि नग्नीकरणमित्यत्रानटखनटो रूपे समासे स्त्रियां वा विशेषोऽस्ति / केचित्तु च्व्यन्तपूर्वादपि खनटमिच्छन्ति / नग्नीकरणं द्यूतम् / 828 भावे चाशिताद् भुवः खः // 5 / 1 / 130 // आशितशब्दात् पराद् भवतेः भावे करणे चाभिधेये खः प्रत्ययः स्यात् / आशितेन तृप्तेन भूयते भवता आशितंभवो वर्तते भवतः / आशितो भवत्यनेन आशितंभव ओदनः / आशितो भवत्यनगाशितंभवा पञ्चपूली / असरूपत्वादनडपि / आशितस्य भवनम् / न घञ् सरूपत्वात् / आशित इति निर्देशादनातेः कर्तरि क्तो दीर्घत्वं च / आपूर्वाद्वा अविवक्षितकर्मकात् कर्तरि क्तः। 829 नाम्नो गमः खड्डौ च विहायसस्तु विहः / / 5 / 1 / 131 // नाम्नः 87
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy