________________ 288 सिद्धहैमबृहत्प्रक्रिया. [ कृदन्त 818 नाडीघटीखरीमुष्टिनासिकावाताद् ध्मश्च // 5 // 1 / 120 // एभ्यः कर्मभ्यः पराद् धमतेष्ट्धेश्च खश् स्यात् / नाडी धमति धयति वा नाडिंधमः / नाडिंधयः / घटिंधमः / घटिंधयः / खरिंधमः / खरिंधयः / मुष्टिंधमः। मुष्टिंधयः / नासिकंधमः / नासिकंधयः / वातंधमः / वातन्धयः। ड्यन्तनिर्देशस्तदभावे खश्प्रत्ययनिवृत्त्यर्थः / नाडिं धमति धयति वा नाडिध्मः / नाडिधः / घटध्मः / घटधः / खरध्मः / खरधः। 819 पाणिकरात् // 5 // 11121 // आभ्यां कर्मभ्यां पराद् धमतेः खश् प्रत्ययः स्यात् / पाणिं धमति पाणिधमः / करंधमः। पाणिकरात् धेरपीति कश्चित् पाणिधयः। करंधयः। पाणिधमाः, करंधमाः नाडिंधमाः पन्थान इति तद्योगाद्यथा मश्चाः क्रोशन्तीति। 820 कूलादुद्रुजोबहः // 5 / 1 / 122 // कूलात् कर्मणः पराभ्यामुट्ठज् उद्वह् इत्येताभ्यां परः खश् स्यात् / कूलमुद्रुजो गजः। कूलमुद्वहा नदी। 821 वहाभ्राल्लिहः // 5 / 1 / 123 // वहाभ्राभ्यां कर्मभ्यां पराल्लिहेः खश स्यात् / वहं लेढि वहलिहो गौः। अभ्रंलिहः प्रासादः। 822 बहुविध्वरुस्तिलात्तुदः // 5 // 1 // 124 // एभ्यः कर्मभ्यः परात् तुदेः खश् स्यात् / बहुं तुदति बहुतुदं युगम् / विधुतुदो राहुः। १अरुंतुदः पीडाकरः। तिलंतुदः काकः / बहोः केचिदेवेच्छन्ति / * 823 ललाटवातशर्धात्तपाजहाकः॥५।१।१२६॥ ललाटादिभ्यः कर्मभ्यः परेभ्यो यथासंख्यं तप अज् हाक् इत्येतेभ्यः खश् स्यात् / ललाटं तपति ललाटन्तपः सूर्यः / वातमजन्ति वातमजा मृगाः / शर्द्धजहा माषाः। खशः शित्त्वादजेर्वी आदेशो न / हाकः ककारो हाङो निवृत्त्यर्थः। 824 असूर्योग्राद दृशः॥५१११२६॥ अमूर्योग्राम्यां कर्मभ्यां परात दृशेः खश् स्यात् / सूर्यमपि न पश्यन्ति असूर्यपश्या राजदाराः। दृशिना संबद्धस्य नबः सूर्येण सहासामयेऽपि गमकत्वात् समासः / उग्रं पश्यति उग्रंपश्यः / 1 मोऽन्ते 'संयोगस्य' इति सलोपः।