SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 687 811 धारेर्धर् च // 5 // 1 // 113 // कर्मणः पराद् धारयतेः संज्ञायां खः प्रत्ययः स्थाद धर इत्ययमादेशश्च / वसु धारयति वसुन्धरा पृथ्वी / युगन्धरः / सीमन्धरः। तीर्थकरावेतौ / संज्ञायामित्येव / छत्रधारः। 812 पुरन्दरभगन्दरौ॥५।१।११४॥ एतौ संज्ञायां खप्रत्ययान्तौ निपात्येते। पुरो दारयति पुरन्दरः शक्रः। भगं दारयति भगन्दरो व्याधिः। दारयतेईस्वः पुरोऽमन्तता च निपात्यते / पुरशब्दपूर्वस्य तु पुरदार इति भवति / 813 वाचंयमो व्रते // 5 // 1 / 115 // व्रतं शास्त्रितो नियमः। तस्मिन् गम्यमाने वाचः कर्मणः पराधमेर्धातोः खो वाचश्चामन्तता निपात्यते / वाचं यच्छति नियमयति वा वाचंयमो व्रती / व्रत इति किम् / वाग्यामोऽन्यः / 814 मन्याण्णिन् / / 5 / 1 / 116 // कर्मणः परान्मन्यतेणिन् प्रत्ययः स्यात् / पण्डितं मन्यते बन्धु पण्डितमानी बन्धोः। दर्शनीयां मन्यते भार्या दर्मनीयमानी भार्यायाः / श्यनिर्देश उत्तरार्थः / * 8815 कर्तुः खश् // 1 / 1 / 117 // प्रत्ययार्थात् कर्तुः कर्मणः परान्मन्यतेः खश् प्रत्ययः स्यात् / यदा प्रत्ययार्थः कर्ता आत्मानमेव दर्शनीयवादिना धर्मेण विशिष्टं मन्यते तदायं कर्म तत्रायं विधिः। पण्डितमात्मानं मन्यते पण्डितंमन्यः / पट्टीमात्मानं मन्यते पटिमन्या / विद्वन्मन्यः / विदुषिमन्या / असरूपत्वाण्णिन्नपि / पण्डितमात्मानं मन्यते पण्डितमानी / पटुमानिनी / विद्वन्मानी / विद्वन्मानिनी / कर्तुरिति किम् / दर्शनीयमानी चैत्रस्य / पूर्वेणात्र णिन्नेव / शकारः शित्कार्यार्थः / 816 एजेः // 1 / 1 / 1181 कर्मणः परादेजयतेः खश् स्यात् / अङ्गान्येजयति अङ्गमेजयः / जनमेजयः। अरिमेजयः। 817 शुनीस्तनमुञ्जकूलास्यपुष्पात् दधेः / / 5 / 1 / 119 // एभ्यः कर्मभ्यः परात् धेः खश् स्यात् / शुनी धयति शुनिधयः। स्तनधयः। मुज॑धयः। कूलंधयः / आस्यंधयः / पुष्पंधयः। मुञ्जादिभ्यः केचिदेवेच्छन्ति / ट्धेष्टकारो डन्यर्थः। शुनिधयी / स्तनंधयी सर्पजातिः। * मनुतेर्निवृत्त्यर्थश्च /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy