________________ 686 सिद्धहैमबृहत्लक्रिया. [कृदन्त कश्चित् / खो वेति सिद्धेऽणग्रहणं हेखादिषु टबाधनार्थम् / कथं योगक्षेमकरी लोकस्येति ? उपपदविधिषु तदन्तविधेरनाश्रयणात् / अत एव 'संख्या'-दिस्त्रेऽन्तग्रहणे सत्यप्यनन्तग्रहणम् / उत्तरत्र च भयग्रहणेऽप्यभयग्रहणम् / .804 मेघर्ति भयाभयात् खः / / 5 / 1 / 106 // एभ्यः कर्मभ्यः परात् करोतेः खप्रत्ययः स्यात् / मेघान् करोति मेघंकरः / ऋतिगतिः सत्यता वा / ऋतिकरः। भयंकरः / अभयंकरः / हेखादिविवक्षायां टमपि बाधते परखात् / भयंकरं श्मशानम् / 805 प्रियवशाबदः // 5 / 1 / 107 // आभ्यां कर्मभ्यां पराद् वदेः खः स्यात् / प्रियं वदति प्रियंवदः। वशंवदः। . 806 द्विषन्तपपरंतपौ // 5 / 1 / 108 // द्विषत्परशब्दाभ्यां कर्मभ्यां परात् ण्यन्तात्तपेः खः प्रत्ययो इस्वत्वं द्विषत्तकारस्य मकारश्च निपात्यन्ते। द्विषतस्तापयति द्विषन्तपः / परन्तपः / निपातनस्येष्टविषयखात् स्त्रियामनभिधानम् / द्विषतीतापः / अण्यन्तस्य च तपेन / द्विषतः पराँश्च तपति द्विषत्तापः / परतापः। 807 परिमाणार्थमितनखात्पचः // 1 / 1 / 109 // सर्वतो मानं परिमाणम् / तदर्थाः प्रस्थादयः शब्दाः। एभ्यो मितनखाभ्यां च कर्मभ्यां परात् पचेः खः प्रत्ययः स्यात् / प्रस्थंपचा स्थाली / द्रोणंपचा दासी / अल्पंपचा मुनयः। पान्तावल्पंपचान् मुनीन् / मितंपचा ब्राह्मणी / नखंपचा यवागूः / 808 कूलाभ्रकरीषात्कषः // 2 / 1 / 110 // एभ्यः कर्मभ्यः परात् कषेः खः प्रत्ययः स्यात् / कूलंकषा नदी। अभ्रंकषो गिरिः / करीषंकषा वात्या / 809 सर्वात् सहश्च / / 5 / 1 / 111 // सर्वशब्दात् कर्मणः परात् सहेः कषेश्च खः प्रत्ययः स्यात् / सर्वं सहते सर्वसहो मुनिः / सर्वकषः खलः / 810 भृवृजितृतपदमेश्च नानि // 1 / 1 / 112 // कर्मणः परेभ्य एभ्यः सहेश्च खः स्यान्नानि-संज्ञायाम् / विश्वंभरा वसुधा / पतिवरा कन्या / शत्रुजयः पर्वतः / धनंजयः पार्थः। रथन्तरं साम / शत्रुन्तपो राजा दमिरन्तर्भूतण्यों ण्यन्तश्च गृह्यते / बलिं दाम्यति दमयति वा बलिन्दमः कृष्णः / अरिन्दमः / शत्रुसहः। एतौ राजानौ // नानीति किम् / कुटुम्बं बिभर्ति कुटुम्बमारः। केचित्तु रथेन तरति रथन्तरं सामेत्यकर्मणोऽपीच्छति /