SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. स्यात् / किं करोति किंकरः, किंकरा / यत्करः / यत्करा / तत्करः / तत्करा / चौर्ये तस्करः। बहुकरः / बहुकरा / बहुकरीति संख्यावचनादुत्तरेण टः / किंकरीति हेखादौ टः। . 800 संख्याहर्दिवाविभानिशाप्रभाभाश्चित्रकाद्यन्तानन्तकारबाहरुधनुर्नान्दी लिपिलिबिवलिभाक्तिक्षेत्रजङ्घाक्षपाक्षणदारजनिदोषादिनदिवसाट्टः / / 5 / 1 / 102 // संख्येत्यर्थप्रधानमपि / तेनैकादिपरिग्रहः। एभ्यः कर्मभ्यः परात् करोष्टः प्रत्ययः स्यात् / अहेवाद्यर्थ आरम्भः। संख्यां करोति संख्याकरः। एककरः। द्विकरः। त्रिकरः। अहस्करः। दिवाकरः। विभाकरः। निशाकरः। प्रभाकरः / भास्करः। चित्रकरः / कर्तृकरः। आदिकरः। अन्तकरः। अनन्तकरः। कारकरः। बाहुकरः / अरुष्करः / धनुष्करः / नान्दीकरः / लिपिकरः। लिबिकरः। बलिकरः। भक्तिकरः / क्षेत्रकरः / जङ्घाकरः / क्षपाकरः / क्षणदाकरः / रजनिकरः। रजनीकरः / दोषाकरः / दिनकरः / दिवसकरः / टकारो ङयर्थः / संख्याकरी। 801 हेतुतच्छीलानुकूलेऽशब्दश्लोककलहगाथावरचाटुसूत्रमन्त्रपदात् / / 5 / 1 / 103 // हेतुः प्रतीतशक्तिकं कारणम् / तच्छीलं तत्स्वभावः। अनुकूल आराध्यचित्तानुवर्ती / एषु कर्तृषु शब्दादिवर्जितात् कर्मणः परात् करोतेष्टः प्रत्ययः स्यात् / हेतौ-यशस्करोति यशस्करी विद्या / शोककरी कन्या / कुलकरं धनम् / तच्छीले-क्रीडाकरः। श्राद्धकरः / अनुकूले-प्रेषणाकरः। वचनकरः। हेखादिष्विति किम् / कुम्भकारः / शब्दादिनिषेधः किम् / शब्दकारः / श्लोककारः। कलहकारः। गाथाकारः / वैरकारः। चाटुकारः / सूत्रकारः। मन्त्रकारः / पदकारः। तच्छीले ताच्छीलिकश्च प्रत्यय उदाहार्यः / 802 भृतौ कर्मणः / / 5 / 1 / 104 // कर्मन्शब्दात् कर्मणः परात् करोते तो गम्यमानायां टः स्यात् / भृतिर्वैतनं कर्ममूल्यमिति यावत् / कर्मकरो भृतकः। कर्मकरी दासी / भृताविति किम् / कर्मकारः / पुनः कर्मग्रहणं शब्दरूपकर्मप्रतिपत्त्यर्थम् / 803 क्षेमप्रियमद्रभद्रात खाण / / 5 / 1 / 105 // एभ्यः कर्मभ्यः परात् करोतेः ख अण् इत्येतौ प्रत्ययौ स्याताम् / क्षेमं करोति क्षेमंकरः, क्षेमकारः / प्रियंकरः, प्रियकारः / मदंकरः, मद्रकारः / भद्रंकरः, भद्रकारः। भद्रात्केचिदेवेच्छन्ति / एभ्य इति किम् / तीर्थकरः। हेवादिषु तीर्थकरः / तीर्थकार इत्यपि
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy