________________ 684 सिद्धहैमबृहत्मक्रिया. [कृदन्त यथादर्शनमन्येभ्योऽपि भवति / अदण्डादेरिति किम् / दण्डधारः / कुण्डधारः / काण्डधारः / कर्णधारः / मूत्रधारः / छत्रधारः। . 793 हृगो वयोऽनुद्यमे // 5 // 1295 // कर्मणः पराद् हरतेर्वयसि अनुद्यमे च गम्यमाने अच् स्यात् / प्राणिनां कालकृतावस्था वयः। उद्यम उत्क्षेपणम् आकाशस्थस्य वा धारणम् / तदभावोऽनुद्यमः / अस्थिहरः श्वशिशुः / कवचहरः क्षत्रियकुमारः। अंशहरो दायादः / अनुद्यमे-मनोहरः प्रासादः। मनोहरा माला / संज्ञायां टोऽपीति कश्चित / मनोहरी विषहरी मणिः। वयोऽनुद्यम इति किम् / भारहारः। वयसि क्रियमाणः। संभाव्यमानो वोद्यम उच्यमानो वयो गमयतीति उद्यमार्थ वयोग्रहणम् / ___794 आङः शीले // 5 // 1196 // कर्मणः परादायूर्वाद्धरतेः शीले गम्यमानेऽच् प्रत्ययः स्यात् / शीलं स्वाभाविकी प्रवृत्तिः। पुष्पाण्याहरतीत्येवंशीलः पुष्पाहरः / फलाहरः / सुखाहरः / पुष्पाधाहरणे स्वाभाविकी फलनिरपेक्षा वृत्तिरस्येत्यर्थः / आङ इति किम् / पुप्पाणि हर्ता / तृन् / शील इति किम् / पुष्पाहारः / सुखाहर इति अशीलेऽनुद्यमेऽर्थे पूर्वेणाच् / लिहादिप्रपञ्चप्रकरणमिदम् / 795 दृतिनाथात्पशाविः // 5 / 1 / 97 // आभ्यां कर्मभ्यां पराद्धरतेः पशौ कर्तरि इः प्रत्यय: स्यात् / दृति हरति दृतिहरिःश्वा / नाथहरिः सिंहः। पशाविति किम् / इतिहारो व्याधः / नाथहारी गन्त्री / 796 रजःफलेमलाद ग्रहः // 5 / 1 / 98 // एभ्यः कर्मभ्यः पराद ग्रहेरिः स्यात / रजोग्रहिः कञ्चुकः। फलेग्रहिवृक्षः / मूत्रनिर्देशादेवम् / मलग्रहिः कम्बलः। रजोमलाभ्यां केचिदेवेच्छन्ति / 797 देववातादापः // 5 / 1 / 99 // देववाताभ्यां कर्म भ्यां परादापेर्धातोरिः प्रत्ययः स्यात् / देवानामोति देवापिः। वातापिः / 798 शकृत्स्तम्बाद वत्सबीहौ कृगः // 5 // 1 / 100 // शकृत्स्तम्बाभ्यां कर्मभ्यां परात् कृगो यथासंख्यं वत्से ब्रीहौ च कर्तरि इ. प्रत्ययः स्यात् / शकृत्करिर्वत्सः। स्तम्बकरिीहिः / वत्सबीहाविति किम् / शकृत्कारः। स्तम्बकारः। 799 किंयत्तबहोरः // 5 / 1 / 101 // एभ्यः कर्मभ्यः परात् करोतेर प्रत्ययः