SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 786 राजघः // 5 // 1 // 48 // राज्ञः कर्मणः पराद् हन्तेष्टक् प्रत्ययो घादेशश्च निपात्यते / राजानं हन्ति राजघः / 787 पाणिघताडघौ शिल्पिनि // 5 / 1189 // पाणिताडाभ्यां कर्मभ्यां पराद हन्तेः शिल्पिनि कर्तरि टक् घादेशश्च निपात्यते / पाणिं हन्ति पाणिघः, ताडघः शिल्पी। पाणिना ताडेन च हन्तीति करणादपि केचित् / शिल्पिनीति किम् / पाणिघातः / ताडघातः / 788 कुक्ष्यात्मोदाद् भृगः खिः॥ / 190 // एभ्यः कर्मभ्यः परात् भृगो धातोः खिः प्रत्ययः स्यात् / खित्यनव्ययारुष इति मागमे कुक्षिमेव बिभर्ति कुक्षिभरिः / आत्मभरिः। उदरंभरिः / उदरात् केचिदेवेच्छन्ति / खकारो मागमार्थः। 789 अर्होऽच् // 5 // 191 // कर्मणः परादह तेरच् प्रत्ययः स्यात् / अणोऽपवादः / पूजामर्हति पूजार्हः साधुः / पूजाऱ्या प्रतिमा / 790 धनुर्दण्डत्सरुलाङ्गलाङ्कुशर्टियष्टिशक्तितोमरघटाद् ग्रहः // 1192 // एभ्यः कर्मभ्यः पराद् ग्रहेरच प्रत्ययः स्यात् / धनुगृह्णाति धनग्रहः / दण्डग्रहः। त्सरुग्रहः। लाङ्गलग्रहः। अङ्कुशग्रहः। ऋष्टिग्रहः। यष्टिग्रहः। शक्तिग्रहः। तोमरग्रहः / घटग्रहः / नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति घटीग्रहः / अणपीत्येके / धनुहिः, दण्डग्राह इत्यादि चोदाहरन्ति / 791 सूत्राद्वारणे // 5 / 1 / 93 // सूत्रं कार्पासादिमयं लक्षणसूत्रं वाविशेषेण गृह्यते / मुत्रात कर्मणः पराद ग्रहेग्रहणपूर्वके धारणेऽर्थे वर्तमानादच प्रत्ययः स्यात् / सूत्रं गृह्णाति सूत्रग्रहः प्राज्ञः सूत्रधारो वा। सूत्रमुपादाय धारयतीत्यर्थः। अन्ये त्ववधारणे एवेच्छन्ति तन्मते मूत्रग्रहः प्राज्ञ एवोच्यते / धारण इति किम् / सूत्रग्राहः। यो हि सूत्रं गृह्णाति न तु धारयति स एवमुच्यते / 792 आयुधादिभ्यो धृगोऽदण्डादेः // 5 / 1 / 94 // दण्डादीन् वर्जयित्वा आयुधादिभ्यः कर्मभ्यः परात् धृगो धातोरच् स्यात् / धनुर्धरति धनुर्धरः / शक्तिधरः / चक्रधरः / वज्रधरः / शूलधरः / हलधरः। आदिग्रहणाद् भूधरः / जलंधरः। विषधरः / शशधरः / विद्याधरः / श्रीधरः / जटाधरः / पयोधरः / बहुवचनाद्
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy