________________ 642 सिद्धहैमबृहत्मक्रिया. [कृदन्त दाघातोऽपि तर्हि स्यात् / असंज्ञायामिष्यत एव / एवमसंज्ञायां संपूर्वाभ्यां घटिहनिभ्यां वर्णसंघाटः, वर्णसंघातः, पदसंघाट; पदसंघात इत्यादि सिद्धम् / इन्तेरेव वा पृषोदरादित्वाद् वर्णविकारः। __780 कुमारशीर्षाणिन् / / 6 / 1 / 82 // कुमारशीर्षाभ्यां कर्मभ्यां पराद् हन्तेर्णिन् प्रत्ययः स्यात् / कुमारं हन्ति कुमारघाती / शीर्षघाती / अत एव निपातनात् शिरसः शीर्षशब्दोऽकारान्तः प्रकृत्यन्तरं वा। तथा च शीर्षे स्थितं पृष्ठत इति। ____781 अचित्ते टक / / 6 / 1 / 83 // कर्मणः पराद् हन्तेरचित्तवति कर्तरि टक् प्रत्ययः स्यात् / वातं हन्ति वातघ्नं तैलम् / पित्तघ्नं घृतम् / श्लेष्मघ्नं मधु / रोगनमौषधम् / जायानास्तिलकालकाः। पतिघ्नी पाणिरेखा / सर्वकर्मनी शैलेशी। खुघ्नो नगरम् / शतघ्नी आयुधविशेषः। हस्तघ्नो ज्याघातत्रो वर्धपट्टः / बहुलाधिकारात् मुनादयः संज्ञायाम् / अचित्त इति किम् / पापघातो यतिः / चौरघातो राजा / आखुधातो बिडालः / मत्स्यघातो बकः / सस्यघातो वृषभः / / 782 जायापतेश्चिन्हवति // 1 / 184 // जायापतिभ्यां कर्मभ्यां पराद् हन्तेश्चिन्हवति कर्तरि टक् स्यात् / चिन्हं शरीरस्थं शुभाशुभमूचकं तिलकालकादि / जायानो ब्राह्मणः / पतिघ्नी कन्या / अपलक्षणयुगित्यर्थः / चित्तवदर्थ आरम्भः। 783 ब्रह्मादिभ्यः // 5 // 1 // 85 // ब्रह्मादिभ्यः कर्मभ्यः पराद् हन्तेष्टा प्रत्ययः स्यात् / ब्रह्म हन्ति ब्रह्मनः। कृतघ्नः। शत्रुघ्नः। वृत्रघ्नः। भ्रणनः। बालघ्नः। शशघ्नी पक्षिजातिः / गां हन्ति गोनः पातकी / बहुलाधिकारात संपदानेऽपि / गां हन्ति यस्मै आगताय दातुं स गोनोऽतिथिः। बहुवचनाद्यथादर्शनमन्येभ्योऽपि भवति / चित्तवदर्थ आरम्भः / 784 हस्तिबाहुकपाटाच्छक्तौ // 11 // 86 // एभ्यः कर्मभ्यः पराद् हन्तेः शक्तो गम्यमानायां टक स्यात् / चित्तवदर्थ आरम्भः। हस्तिनं हन्तुं शक्तो हस्तिनो मनुष्यः / बाहुनो मल्लः / कपाटनश्चौरः / शक्ताविति किम् / हस्तिनं हन्ति विषेण हस्तिघातो रसदः। 785 नगरादगजे // 5 // 1187 // नगरात कर्मणः पराद हन्तेर्गजवर्जिते कर्तरि टक् स्यात् / चित्तवदर्थ आरम्भः / नगरनो व्याघ्रः / अगज इति किम् / नगरपातो छस्ती।