________________ प्रकरणम्] सिद्धहैमबृहत्मक्रिया. 681 सर्गात् पिवतेष्टक् स्यात् / सुरां पिबति सुरापः, सुरापी / सीधुपः / सीधुपी / सुराशीधोरिति किम् / क्षीरपा बाला / पिव इति किम् / सुरां पाति सुरापा / कथं संज्ञायां सुरापा, सुरापीति ? पातिपिवत्योभविष्यति / न च धात्वर्थभेदः। संज्ञासु धात्वर्थस्य व्युत्पत्तिमात्रार्थत्वात् / ___774 आतो डोऽवावामः // 5 // 176 // कर्मणः परादनुपसर्गात् हावामावर्जितादाकारान्ताद् धातोर्डः प्रत्ययः स्यात् / गां ददाति गोदः। कम्बलदः / पाणित्रम् / अङ्गुलित्रम् / ब्रह्मज्यः / वपुर्वीतवान् वपुर्व्यः। अहावाम इति किम् / स्वर्गहायः / तन्तुवायः / धान्यमायः / अणेव / कथं मित्रहः ? 'कचित् ' इत्यनेन डः। अनुपसर्गादित्येव / गोसंदायः। वडवासंदायः। उपसर्गः अव्यवधानतैवेत्येण / 775 समः ख्यः // 5 // 177 / / कर्मणः परात् संपूर्वात् ख्या इत्येतस्मात् डः स्यात् / गां संख्याति संचष्टे वा गोसंख्यः / पशुसंख्यः / उपसर्गार्थ वचनम् / 776 दश्चाङः // 5 // 178 // कर्मणः परादाङ्पूर्वाददातेः ख्या इत्येतस्माच्च डः स्यात् / दायमादत्ते दायादः। स्त्रियमाचष्टे ख्याख्यः / मियाख्यः / इदमुत्तरं चोपसर्गार्थ वचनम् / 777 प्राज्ज्ञश्च // 5 // 1179 // कर्मणः परात्पपूर्वाज्जानातेर्दारूपाच डः स्यात् / पथिप्रज्ञः / प्रपापदः / इह पूर्वसूत्रे च दारूपं गृह्यते न संज्ञा ज्ञाख्यासाहचर्यात् / पूर्वसूत्रे तु दाग एव ग्रहणम् / तस्यैवाङा योगात् / तेन स्तनौ प्रधयति स्तनप्रधायः। 778 आशिषि हनः // 5 // 180 // आशिषि गम्यमानायां कर्मणः पराद हन्तेर्डः स्यात् / शत्रु वध्यात् शत्रुहः / पापहः / दुःखहः / गतावपीति कश्चित् / क्रोश हन्ति क्रोहः / ___779 क्लेशादिभ्योऽपात् // 5 // 1 // 81 // क्लेशादिभ्यः कर्मभ्यः परादपपूर्वाद् हन्तेर्डः स्यात् / अनाशीरर्थ आरम्भः। क्लेशमपहन्ति क्लेशापहः / तमोऽपहः / दुःखापहः। उवरापहः / दोपहः। दोषापहः / रोगापहः / वातपित्तकफापहः / विषानिदर्पापहः / बहुवचनाद्यथादर्शनमन्येभ्योऽपि भवति / कथं दार्वाघाटः, चार्वाघाटः ? घटतेरणि संज्ञायां भविष्यति / चारु आहन्ति घाघातो हन्तेरेव / 88