SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ 680 सिद्धहैमबृहत्पक्रिया. [ कृदन्त सान्तिः / अहन्पश्चमेति दीर्घः / कृत्-वीरो भूयादिति वीरभूः / मित्रभूः। किप् / अग्निरस्य भूयात् अग्निभूतिः / देवभूतिः / अश्वभूतिः। सोमभूतिः / कुमारोऽस्य दुरितानि नयतामित्याशंसितः कुमारनीतिः / मित्रमेनं वर्धिषीष्ट मित्रवृद्धिः। क्तिः / देवा एनं देयासुर्देवदत्तः। विष्णुरेनं श्रूयात् इति विष्णुश्रुतः / क्तः / शर्व एनं वृषीष्ट शर्ववर्मा / मन् / गङ्गा एनं मिद्यात् गङ्गामित्रः / त्रक् / वर्धिषीष्ट वर्धमानः। 770 कर्मणोऽण् // 5 // 1 // 72 // निर्वयविकार्यप्राप्यरूपात् कर्मणः परस्माद् धातोरण प्रत्ययः स्यात् / अजाधपवादः / निर्वात्-कुम्भकारः। नगरकारः / विकार्यात्-काण्डलावः / शरलावः। प्राप्यात्-वेदाध्यायः / चर्चापारः। भारहारः। सूत्रधारः। भारवाहः / द्वारपालः / उष्ट्रप्रणायः / कमण्डलुग्राहः। आदित्यं पश्यति हिमवन्तं शृणोति ग्रामं मच्छतीत्यादौ प्राप्यात् कर्मणोऽनभिधानान्न / महान्तं घटं करोतीति सापेक्षत्वात् अनभिधानाच / तथा च बहुलाधिकारः। निवर्त्यविकार्याभ्यामपि कचिन्न / संयोगं जनयति / स्रजं विरचयति / वृक्षं छिनत्ति ! कन्यां मण्डयति / णकारो वृद्धयर्थः / 771 शीलिकामिभक्ष्याचरीक्षिक्षमो णः // 5 // 1 // 73 // कर्मणः परेभ्यः शीलि कामि भक्षि आचरि ईक्षि क्षम् इत्येतेभ्यो धातुभ्यो णः प्रत्ययः स्यात् / धर्म शीलयति धर्मशीलः, धर्मशीला / धर्मकामः, धर्मकामा। वायुभक्षः, वायुभक्षा / आपूर्वश्चरिः-कल्याणाचारः / कल्याणाचारा / सुखप्रतीक्षः। सुखप्रतीक्षा / बहुक्षमः / बहुक्षमा / अल्पअन्तैः शीलादिभिर्बहुव्रीहौ सति धर्मशीलादयः सिद्धयन्ति / अण्वाधनार्थं तु वचनम् / अणि हि स्त्रियां की स्यात् तथाच धर्मशीलीत्याद्यनिष्टं रूपं स्यात् / एवंप्रायेषु च बहुव्रीह्याश्रयणे अम्भोऽतिगमेति स्यात् अम्भोऽतिगामी चेष्यते / कामीति ण्यन्तस्योपादानादण्यन्तादणेव पयस्कामीति / ण्यन्तस्य तु णे सति पयःकामेति भवति / अत एव च ग्यन्तनिर्देशादण्यन्तनिर्देशे कुकमिकसेत्यादौ केवलस्यैव कमेग्रहणम् / तेन णे सति सकारादेशो न / 772 गायोऽनुपसर्गाक् // 5 // 174 / / कर्मणः परादनुपसर्गाद् गायतेष्टा प्रत्ययः स्यात् / वक्रं गायति वक्रगः वक्रगी। सामगः। सामगी। अनुपसर्गादिति किम् / वक्रसंगायः / खरुसंगायः / वक्रादयो गीतविशेषाः गायतिनिर्देशो गानिवृत्त्यर्थः। 773 सुराशीधोः पिवः // 5 / 17 / / सुराशीधुभ्यां कर्मभ्यां परादनुप
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy