________________ 678 सिद्धहैमबृहत्पक्रिया. [कृदन्त . पूर्वाच्च विन्देर्नाम्नि-संज्ञायां शः स्यात् / निलिम्पन्तीति निलिम्पा नाम देवाः। गा विन्दतीति गोविन्दः / कुविन्दः / अरविन्दः। कुरुविन्दः / उरविन्दः। नाम्नीति किम् / निलिपः 757 वा ज्वलादिदुनीभूग्रहास्रोर्णः // 5 // 1 / 62 // ज्वलादेर्गणात् दुनीभूग्रहिभ्य आयूर्वाच्च स्रवतेरनुपसर्गाण्णो वा स्यात् / ज्वलः / ज्वालः / चला चालः / निपातः, उत्क्रोशः, इति बहुलाधिकारात् / दवः / दावः / नयः / नायः। दुनीभ्यां नित्यमेवेत्येके / भवः। भावः। व्यवस्थितविभाषेयम् / तेन ग्राहो मकरादिः। ग्रहः सूर्यादिः। आस्रवः। आस्रावः। अनुपसर्गादित्येव / प्रज्वलः / प्रदवः / प्रणयः / प्रभवः / प्रग्रहः / प्रस्रवः। 758 अवहृसासंस्रो // 5 // 1 // 63 / / अवपूर्वाभ्यां हृसाभ्यां संपूर्वाञ्च स्रवतेर्णः प्रत्ययः स्यात् / अवहारः / अवसायः / संस्रावः / संस्रव इत्यपि कश्चित् / / 759 तन्व्यधीश्वसातः // 5 // 1 // 64 // तन् व्यधि इण् श्वस् इत्येतेभ्य आदन्तेभ्यश्च धातुभ्यो णः प्रत्ययः स्यात् / तानः / उत्तानः। अवतानः। व्याधः। प्रत्यायः / अत्यायः / अन्तरायः / अतिपूर्वादेवेण इत्येके / श्वासः / आश्वासः / आदन्त-अवश्यायः / प्रतिश्यायः / ग्लायः / म्लायः / कथं ददः, दधः ? ददिदध्योरचा सिद्धम् / 760 नृत्खनञ्जः शिल्पिन्यकट् // 5 // 1 // 66 // नृतिखनिरञ्जिभ्यः शिल्पिनि कर्तर्यकट् प्रत्ययः स्यात् / शिल्पं कर्मकौशलम् / तद्वान् शिल्पी / नर्तकः / नर्तकी / खनकः / खनकी। रजकः / रजकी। शिल्पिनीति किम् / नर्तिका / खानकः / रञ्जकः / टकारो ङयर्थः। 761 गस्थकः // 5 // 1 // 66 // गायतेः शिल्पिनि कर्तरि थकः प्रत्ययः स्यात / गाथक; / गाङः प्रत्यये शिल्पी न गम्यते इति गायतेग्रहणम् / 762 टनण् // 5 / 1 / 67 / / गायतेः शिल्पिनि कर्तरि टनण् प्रत्यय: स्यात् / गायन; / गायनी / टकारो ङयर्थः / णकार ऐकारार्थः / योगविभाग उत्तरार्थः / एतौ प्रत्ययावशिल्पिन्यपीत्येके /