________________ सिद्धहैमबृहत्प्रक्रिया. [व्यंजनान्तपुंल्लिङ्ग हे सुधे / हे सुधि / प्रध्या / प्रधिना / नीग्रामण्यादीनां इस्वत्वे नि, ग्रामणि कुलं / निनी / ग्रामणिनी। निया / निना / ग्रामण्येत्यादि / मधु / मधुनी / मधृनि / हे मधो मधु / एवमम्बादयः / प्रियक्रोष्टु 2 / प्रियक्रोष्टुनी २।प्रियक्रोष्टूनि 2 ।टादौ पुंवत्पक्षे पियक्रोष्ट्रा / प्रियक्रोष्टुना। प्रियक्रोष्ट्रे / प्रियक्रोष्टवे / प्रियक्रोष्टुने / आमि प्रियक्रोष्टूनाम् / सुलु 2 / सुलुनी 2 सुलूनि 2 / सुल्वा / सुलुनेत्यादि / कर्तृ।कतॄणी 2 / कर्तृणी 2 / कर्ता / कर्तृणा / हे कर्तः / हे कर्तृ / एवं धातृज्ञात्रादयः / एदेतोईस्वत्वे इकार ओदौत उकारश्च वाच्यो / अतिहि 2 / अतिहिनी 2 / अतिहिनी 2 / अतिहिनेत्यादि / अत्र न पुंवत् / एवमग्रेऽपि / अतिरि 2 / अतिरिणी 2 / अतिरीणि 2 / अतिरिणा। एकदेशविकृतस्यानन्यत्वादात्वम् / अतिराभ्याम् / अतिरीणाम् इत्यादि / अतिगु 2 / अतिगुनी 2 / अतिगनि 2 / अतिगुनेत्यादि / एवमतिनु कुलमित्यादि। . इति श्रीसिद्धहैमबृहत्प्रक्रियायां स्वरान्तनपुंसकलिङ्गप्रकरणं समाप्तम् / // अथ व्यंजनान्तपुंल्लिङ्गप्रकरणम् // तत्र चकारान्तः पयोमुच् शब्दः / 285 चजः कगम् // 2 / 1 / 86 // चकारजकारयोधुटि प्रत्यये परे पदान्ते च ककारगकारौ स्याताम् / धुटस्तृतीयः / विरामे वा / पयोमुक् / पयोमुग् / पयोमुचौ पयोमुचः / पयोमुग्भ्याम् / पयोमुक् सु इति जाते नाम्यन्तस्येति पत्वे / कपसंयोगे क्षः, पयोमुक्षु। 286 यजमृजमृजराजभ्राजभ्रस्जवस्चपरिव्राजः शः षः 2 / 1187 // यजादीनां धातूनां चजः शकारस्य च धुटि प्रत्यये परे पदान्ते च षकार आदेशः स्यात् / इत्यनेन पत्वे / / ___287 संयोगस्यादौ स्कोलक् ॥२।१।८८॥धुटि प्रत्यये पदान्ते च यः संयोगस्तस्यादौ वर्तमानयोः सकारककारयोर्मुक् स्यात् / इति सलोपे / धुटस्तृतीय इति डत्वे, विरामे वेत्यनेन च टत्वे मूलट् / मूलवृड् / मूलवृश्चौ / मूलवृश्चः / मूलश्वा / मूलवृड्भ्याम् / मूलवृट्त्सु / मूलवृट्सु / प्रपूर्वादश्चतेः किपि / 288 अश्वेरन याम् // 4 / 246 // अञ्चेरनोंयामेव वर्तमानस्योपान्त्यनकारस्य लुक् स्यात् / इत्यनेन नकारस्य च लुकि पाच स् इति स्थिते /