________________ 55 प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 280 अनतो लुप् // 1 / 4 / 59 // अनकारान्तस्य नपुंसकस्य संबंधिनोः स्यमोर्लफ् स्यात् / वारि 2 / लुकमकृत्वा लुप्करणं स्यमोः स्थानिवद्भावेन यत्कार्य तस्य प्रतिषेधार्थम् , तेन यत् तत् इत्यादौ त्यदायत्वं न भवति / वारि औ इति स्थिते / औरीतीकारे कृते 281 अनामस्वरे नोऽन्तः // 1 / 4 / 64 // नाम्यन्तस्य नपुंसकस्य संबंधिन्यामवर्जिते स्यादौ स्वरे परे नोऽन्तः स्यात् / वारिणी 2 / वारीणि 2 / वारिणा। वारिणे / वारिणः 2 / वारिणोः 2 / अनामिति निषेधान्नामि कृते वारीणाम् / अत्र नागमाभावे नामि सति दीर्घा नाम्यतिनित्यादिना दीर्घः सिद्धः / वारिणि / संबोधने__ 282 नामिनो लुग्वा // 1 / 4 / 61 // नाम्यन्तस्य नपुंसकस्य संबंधिनोः स्यमोलुंग्वा स्यात् / लुपैव सिद्धे लुग्वचनं स्थानिवद्भावार्थम् , तेन लुप्तप्रत्ययनिमित्तकं कार्य स्यादिति सिना सह गुणे हे वारे / पक्षे अनतो लुबिति से प् / लुपि न तनिमित्तमिति गुणाभावे हे वारि / व्यंजनादौ मुनिवत् / तत्संबंधिविज्ञानात् प्रियवारये। 283 वान्यतः पुमांष्टादौ स्वरे // 1 / 4 / 62 // यो नाम्यन्तः शब्दोऽन्यतो विशेष्यवशान्नपुंसकः स टादौ स्वरे पुंवद्वा स्यात् / शुचये / शुचिने / इत्यादि वारिवत् / अन्यत इति किम् त्रपुणे / जतुने / पीलुने फलाय / टादाविति किम् / शुचिनी / स्वर इति किम् / शुचिभ्याम् / नामिन इत्येव / कीलालपेन कुलेन / नपुंसक इत्येव / कल्याण्यै ब्राह्मण्यै / दध्यादीनां टादौ विशेषः / ___284 दध्यस्थिसक्थ्यक्ष्णोऽन्तस्यान् / / 1 / 4 / 63 // दधि अस्थि सक्थि अक्षि इत्येतेषां नपुंसकानां नाम्यन्तानामन्तस्य तत्संबंधिन्यन्यसंबंधिनि वा टादौ स्वरे अन् इत्ययमादेशः स्यात् / अनोऽस्य, दना / दध्ने / दन्नः 2 / दनाम् / ईडौ वा / दन्नि / दधनि / शेवं वारिवत् / एवमस्थिसक्थ्यक्षीणि / प्रियदन्ना। समासान्तविधेरनित्यत्वात् (दध्युरःसपिरित्यनेन प्राप्तः ) कच् न भवति / टादावित्येव / दधिनी / स्वर इत्येव / दधिभ्याम् / नपुंसकस्येत्येव / दधातीत्येवंशीलो दधिः, दधिनामा वा / दधिना / दधये / दना, अतिदन्ना कुलेनेत्यादौ विशेषविधानात् परमपि नागममनादेशो बाधते / सुधि२ / सुधिनी 2 / सुधीनि 2 / सुधिया। सुधिना।