________________ सिद्धहैमबृहत्मक्रिया. [ स्वरान्तनपुंसकलिङ्ग एकतरशब्दं धर्जयित्वा। अकार उच्चारणार्थः / विरामे वा। अन्यत् / अन्यद् / अन्ये / अन्यानि / पुनस्तद्वत् / एवमन्यतरत् / इतरत् / कतरत् / कतमत् / शेषं धुंवत् / अनेकतरस्येति किम् / एकतरम् / पञ्चत इति किम् / नेमम् / नपुंसकस्येत्येव / अन्यः / अन्या। अन्यादिसंबंधिनोः स्यमोर्ग्रहणादिह न भवति / प्रियान्यम् / इह तु भवति-परमान्यत् / अतिजरम् / जरसादेशपक्षे 275 जरसो वा // 1 / 4 / 60 // जरसन्तस्य नपुंसकस्य संबंधिनोः स्यमोर्वा लुप् स्यात् / अतिजरः, अतिजरसम् / अतिजरसी, अतिजरे / अन्ये तु द्वितीयैकवचनस्यैवामो योऽमादेशस्तस्यैव लुब्विकल्पमिच्छन्ति न स्यादेशस्य, तन्मते प्रथमैकवचने अतिजरसम्, अतिजरमित्येव रूपद्वयम् / केचिज्जरसः स्यमोलेपिं नेच्छन्ति, तन्मते प्रथमाद्वितीययोरपि प्रत्येकं रूपद्वयमेव / प्रथमाबहुवचने विकल्पेन जरसादेशे कृते 276 धुटां प्राक् // 2 // 4 // 66 // स्वरात् परा या धुड्जातिस्तदन्तस्य नपुंसकस्य धुड्भ्य एव प्राक् शौ परे नोऽन्तः स्यात् / धुटामिति बहुवचनं जातिपरिग्रहार्थम् / तेन काष्ठतङि, गोरङि, कुलानीति सिद्धम् / 277 स्महतोः // 1 / 4 / 86 // सन्तस्य महच्छब्दस्य च संबंधिनः स्वरस्य शेषे घुटि दीर्घः स्यात् / अतिजरांसि / अतिजराणि / पुनस्तद्वत् / शेषं पुंवत् / हृदयम् / हृदये / हृदयानि / हृदयम् / हृदये / दन्तपादेति वा हृदादेशे धुटां प्रागिति नागमे च 278 नां धुड्वर्गेऽन्त्योऽपदान्ते // 1 // 3 // 39 // अपदान्ते वर्तमानानां मकारनकाराणां धुसंज्ञके वर्गे परे प्रत्यासत्तेनिमित्तवर्गस्यैवान्त्योऽनु भवति / हृन्दि, हृदयानि / हृदा, हृदयेनेत्यादि / उदकम् / उदके उदकानि / उदकम् / उदके / उदानि / उदकानि / उदना / उदकेनेत्यादि / आसनशब्दस्यान्तलुकिआसनानि-आसानि / आस्ना-आसनेनेत्यादि / ( आस्यशब्दस्यासन्नादेश इति पाणिनीयाः) 279 क्लीवे // 2 / 4 / 97 // नपुंसके वर्तमानस्य स्वरान्तस्य नाम्नो हस्वः स्यात् / कीलालपं कुण्डवत् / काण्डे, कुडये इत्यादावेत्वदीर्घत्वादेनिमित्तान्तरापेक्षत्वेन बहिरङ्गस्यासिद्धत्वात् इस्वत्वं न भवति / काण्डीभूतं शुक्लीभूतमित्यादावव्ययानामलिङ्गत्वाच /